स्कृतम् ॥’ इति (५॥११२) मनुस्मरणात् । अनुपस्कृतमखातपूरितम् । सलेपानां
तु–“तैजसानां मणीनां च सर्वस्याश्ममयस्य च । भस्मनाद्भिर्टदा चैव शुद्विरुक्ता
मनीषिभि ॥’ इति (५॥ १ ११) मनूक्तं द्रष्टव्यम् । मृचदस्मनोरेककार्यत्वाद्विकल्पः।
आपस्तु समुच्चीयन्ते । काकादिमुखोपघाते तु-कृष्णशकुनिर्मुसुखावमृष्टं पात्रं
निर्लिखेत्, श्वापदमुखावमृष्टं पात्रं न प्रयुञ्जीत’ इति द्रष्टव्यम् । एतञ्च
माजारादन्यत्र ।--'मार्जारश्चैव दुव च मारुतश्च सदा शुचि ।' इति मनु
स्मरणात् ॥ १८२ ॥ १८३ ॥
यज्ञपात्रादीनां प्रोक्षणेन शुद्धिः--
स्फ्यशूपऽजिनधान्यानां मुसलोलूखलाऽनसाम् ।
प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् ।। १८४ ।।
स्फ्यो वज्रो यज्ञाङ्गम् । अनः शकटम् । शेषं प्रसिद्धम् । एतेपामुष्णेन वारिणा शुद्धिः । पुनरजिनग्रहणं यज्ञाङ्गाजिनप्राश्यर्थम् । संहतानामशुद्धिद्रव्यारैब्धावयविनां बहूनां धान्यानां वाससां च । वासोग्रहणमुक्तशुद्धीनामुपलक्षणार्थम् । उक्त शुद्धीनां धान्यवासःप्रभृतीनां बहूनां च राशीकृतानां प्रोक्षणेनैव शुद्धिः । बहुत्वं च स्पृष्टापेक्षया । एतदुक्तं भवति--यद्रा धान्यानि वस्त्रादीनि वा राशीकृतानि तत्र चण्डालादिस्पृष्टान्यल्पानि बहूनि चास्पृष्टानि तत्र स्पृष्टानामुत्तैव शुद्धिरित २रषा प्राक्षणामात ! तथाच स्मृत्यन्तरम्--'वस्राधान्यादिराशीनामेकदेशस्य दूषणे । तावन्मात्रं समुद्धत्य शेपं प्रोक्षणमर्हति ।।' इति । यदा पुनः स्पृष्टानां बहुत्वं अस्पृष्टानां चाल्पत्वं तदा सर्वेषामेव क्षालनम् । यथाह मनुः (५॥११८)
- अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् । प्रक्षालनेन त्वल्पानामद्भिः शौच
विधीयते ॥' इति । स्पृष्टानामस्पृष्टानां च समत्वेऽपि प्रोक्षणमेव । बहूनां प्रोक्षण
विधानेनाल्पानां क्षालने सिद्धे पुनरल्पानां क्षालनवचनस्य समेषु क्षालननिवृत्त्यर्थ
त्वात् । इयत्स्पृष्टमियदस्पृष्टमेित्यविवेके तु क्षालनमेव । पाक्षिकस्यापि दोषस्य
परिहर्तव्यत्वात् अनेकपुरुपैधर्यमाणानां तु धान्यवासःप्रभृतीनां स्पृष्टानामस्पृष्टानां च प्रोक्षणमेवेति निबन्धकृतः ॥ १८४ ॥
निलेपानां स्पर्शमात्रदुष्टानां शुद्धिमुक्त्वेदानीं सलेपानां शुद्धिमाह--
तक्षणं दारुशृङ्गास्थां गोवालैः फलसंभुवाम् ।
मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ।। १८५ ।।
दारूणां मेषमहिषादिशङ्गाणां करिवाराहशङ्खाद्यस्वाम् । अस्थिग्रहणेन दन्ता नामपि ग्रहणम् । उच्छिष्टलेहादिभिलिंसानां मृद्भस्मोदकादिभिरनपगतलेपानाम् । मनुः (५॥१२६)–“यावन्नापैत्यमेध्याक्ताद्भन्धो लेपश्च तत्कृतः । तावन्मृद्धारि चवादेयं सर्वासु द्रव्यशुद्धिषु ॥' इति सामान्यतः शुद्धिविधानात् । तक्षणे तावन्मा ऋावयवरपनयनं शुद्धिः । फलसंभुवां बिल्वालाबुनालिकेरादिफलसंभूतानां
१ मुखावघृष्टं ख. २ द्रव्याणा बहूनां ख. ३ क्षालनवचननिवृ. ख