स्रात्वा पीत्वा क्षुते सुझे भुक्त्वा रथ्योपसर्पणे ।
आचान्तः पुनराचामेद्वासो विपरिधाय च ।। १९६ ।।
खानपानक्षुतस्वमभोजनरथ्योपसर्पणवासोविपरिधानेषु कृतेष्वाचान्तः पुन राचामेत् । द्विराचामेदित्यर्थः । चकाराद्रोदनाध्ययनारम्भर्चापल्यानृतोक्तयादिषु । तथाच वसिष्ठः-‘सुस्वा भुक्त्वा श्रुत्वा स्रात्वा पीत्वा रुदित्वा चाचान्तः पुन राचामेत्’ इति । (५॥१४५) मनुरपि–“सुस्वा श्रुत्वा च भुक्त्वा च ष्ठीवेि त्वोक्त्वानृतं वच । पीत्वापोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ॥' इति । भोजने त्वादावपि द्विराचमनम्–“भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेत् इल्यापस्तम्बस्मरणात् । खानपानयोरादैौ सकृत् । अध्ययने त्वारम्भे द्विः । शेषेष्वन्ते एव यथोक्तं द्विराचमनम् ॥ १९६ ॥
रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्वायसैः ।
मारुतेनैव शुद्धयन्ति पकेष्टकंचितानि च ।। १९७ ।।
रथ्या मार्गमात्रम् । कर्दमः पङ्कः तोयमुदकम् । रथ्यास्थितानि कर्दमतो
यानि अन्यैश्चण्डालादिभिः श्धभिर्वायसैश्च स्पृष्टानि मारुतेनैव शुद्धयन्ति शुद्धिः
मुपयान्ति । बहुवचनं तद्वतगोमयशर्करादिश्प्राप्यर्थम् । पकेष्टकादिभिश्चितानि
प्रासाद्धवलगृहादीनि चण्डालादिस्पृष्टानि मारुतेनैव शुद्धयन्ति । एतञ्च
'प्रोक्षणं संहतानाम्’ इत्युक्तप्रोक्षणनिषेधार्थम् । तृणकाष्ठपर्णादिमयानां तु
प्रोक्षणमेवेति ॥ १९७ ॥
इति द्रव्यशुद्धिप्रकरणम् ।
अथ दानप्रकरणम् ९
इदानीं दानधर्म प्रतिपादयिष्यंस्तदङ्गभूतपात्रप्रतिपादनार्थ तस्प्रशंसामाह--
तपस्तस्वासृजद्रह्मा ब्राह्मणान्वेदगुप्तये ।
तृप्यर्थ पितृदेवानां धर्मसंरक्षणाय च ।। १९८ ।।
ब्रह्मा हिरण्यगर्भः कल्पादौ तपस्तस्वा ध्यानं कृत्वा कान्सृजामीति पूर्व ब्राह्मणान्स्पृष्टवान् । किमर्थम् । वेदगुप्तये वेदरक्षणार्थम् । पितृणां देवतानां च तृत्यर्थम् । अनुष्ठानोपदेशद्वारेण धर्मसंरक्षणार्थे च । अतस्तेभ्यो दत्तमक्षयफलं भवतीत्यभिप्रायः ॥ १९८ ॥
सर्वस्य प्रभवो विप्राः श्रुताध्ययनशीलिनः ।
तेभ्यः क्रियापराः श्रेष्ठास्तेभ्योऽप्यध्यात्मवित्तमाः ।। १९९ ।।
सर्वस्य क्षत्रियादेर्विप्राः प्रभवः श्रेष्ठाः जात्या कर्मणा च । ब्राह्मणेष्वपि श्रुता-
१ चाल्पानृतो ख. २ पकेष्टिकवितानि ख. ३ कृत्वा मुख्यान्सृजामीति ख.