सामान्यगोदाने फलम्--
यथाकथंचिद्दत्त्वा गां धेनु वाऽधेनुमेव वा ।
अरोगामपरिकृिष्टां दाता खर्गे महीयते ।। २०८ ।।
यथाकथंचिद्धेमशृङ्गाद्यभावेऽपि यथासंभवं पूर्वोत्तेन विधिना धेतुं दोग्ध्रीं
अधेतुं वा अवन्ध्यां अरोगां रोगरहितां अपरिकृिष्टां अत्यन्तादुबला गा दत्वा
दाता स्वर्गे महीयते पूज्यते ॥ २०८ ॥
गोदानसमान्याह--
श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् ।
पादशौचं द्विजोच्छिष्टमार्जनं गोप्रदानवत् ।। २०९ ।।
श्रान्तस्यासनशयनादिदानेन श्रमापनयनं श्रान्तसंवाहनम् । रोगिणां परि चर्या यथाशक्यौषधादिदानेन । सुरार्चनं हरिहरहिरण्यगर्भादीनां गन्धमाल्या दिभिराराधनम् । पादशौचं द्विजानां समानामधिकानां च । तेषामेवोच्छिष्टस्य मार्जनम् । एतान्यनन्तरोत्तेन गोदानेन सभानि ॥ २०९ ॥
भूदीपाश्चान्नवस्राम्भस्तिलसर्पिःप्रतिश्रयान् ।
नैवेशिकं खर्णधुर्यं दत्त्वा स्वर्गे महीयते ।। २१० ।।
भूः फलैप्रदा । दीपा देवायतनादिषु । प्रतिश्रयः प्रवासेिनामाश्रयः । निवे शनार्थ गार्हस्थ्यार्थ यत्कन्या दीयते तत्रैवेशिकम् । स्वर्ण सुवर्णम् । धुर्यो भार सहो बलीवर्दः । शेषं प्रसिद्धम् । एतान्भूदीपादीन्दत्वा स्वर्गलोके महीयते पूज्यते । स्वर्गफलं च भूमिदानादीनां न फलान्तरव्युदासार्थम् । ‘यत्किंचित्कुरुते पापं ज्ञानतोऽज्ञानतोऽपि वा। । अपि गोचर्ममात्रेण भूमिदानेन शुद्धयति ।।' तथा मनुः (४॥२२९)-‘दारिदस्तृप्तिमाप्तोति सुखमक्षय्यमन्नदः । तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ चासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्धदः । अन डुद्दः श्रियं पुष्टां गोदो ब्रक्षस्य विष्टपम् ॥’ इत्यादिफलान्तरश्रवणात् । गोचर्मलक्षणं च बृहस्पतिना दर्शितम्-‘ससहखेतन दण्डेन त्रिंशद्दण्डं निवर्तनम् । दृश तान्येव गोचर्म दत्वा स्वर्गे महीयते ॥’ इति ॥ २१० ॥
गृहधान्याभयोपानच्छत्रमाल्यानुलेपनम् ।
यानं वृक्षं प्रियं शय्यां दत्त्वात्यन्तं सुखी भवेत् ।। २११ ।।
गृहं प्रसिद्धम् । धान्यानि च शालीगोधूमादीनि । अभयं भीतत्राणम् । उपा नहौ छत्रम् । माल्यं मलिकादेः । अनुलेपनं कुङ्कमचन्दनादि । यानं रथादि । वृक्षमुपजीव्यमाम्रादिकम् । प्रियं यद्यस्य प्रियं धर्मादिकम् । शय्यां च दत्वात्य न्तमतिशयेन सुखी भवति । नच हिरण्यादिवद्धस्ते दातुमशक्यत्वैद्धर्मस्य दाना-
१ भूः कृषिफलप्रदा ग. २ भारवाहो ग. ३ चर्मादीनामसंभवः ख.