पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

संभवः । भूमेिदानादावपि समानत्वात् । स्मृत्यन्तरेऽपि धर्मदानश्रवणात् देवतानां गुरूणां च मातापित्रोस्तथैव च । पुण्यं देयं प्रयलेन नापुण्यं चोदितं कचित् ॥” अपुण्याने तदेव वर्धते प्रतिग्रहीतुरपि लोभादिना प्रवृत्तस्य –‘यः पापमैबलं ज्ञात्वा प्रतिगृह्णाति दुर्मतिः । गर्हिताचरणात्तस्य पापं तावत्समाश्र येत् ॥ समद्विगुणसाहस्रमानन्त्यं च प्रदातृषु ।।' इति स्मरणात् । इह च सर्वत्र देशकालपात्रविशेषाद्देयविशेषाद्दातृविशेषात्–‘दाने फलं मया प्रोक्तं हिंसायां तद्वदेव हि' इति प्रतिग्रहीतृवृत्तिविशेषाञ्च दातृप्रतिग्रहीत्रोः फलतारतम्यं द्रष्टव्यम् ॥ २११ ॥
दानात्फलमुक्तमिदानीं दानव्यतिरेकेणापि दानफलावाप्तिहेतूनाह--

सर्वधर्ममयं ब्रह्म प्रदानेभ्योऽधिकं यतः ।
तद्ददत्समवामेोति ब्रह्मलोकमविच्युतम् ।। २१२ ।।

यस्मात्सर्वधर्ममयं ब्रह्म अवबोधकत्वेन तस्मात्तद्दानं सर्वदानेभ्योऽप्यधिकं अतस्तद्दददध्यापलादिद्वारेरण ब्रह्मलोकमवाश्मोति । अविच्युतं विच्युतिर्यथा न भवति । आ भूतसंप्लवं ब्रह्मलोकेऽवतिष्ठत इत्यर्थः । अत्र च ब्रह्मदाने परस्व न्वापादनमात्रं दानं, स्वत्वनिवृत्तः कर्तुमशक्यत्वात् ॥ २१२ ॥
दातुः फलमुक्तं । इदानीं दानव्यतिरेकेणापि दानफलावासेर्हेतुमाह--

प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहम् ।
ये लोका दानशीलानां स तानाशोति पुष्कलान् ।। २१३ ।।

यः पात्रभूतोऽपि प्राप्त प्रतिग्रहं सुवर्णादिकं नादत्ते न स्वीकरोतेि असौ यद्य प्रासं नोपादत्ते तत्तद्दानशीलानां ये लोकास्तान्समग्रानाऽोति ॥ २१३ ॥
इदानीं सर्वप्रतिग्रहनिवृत्तिप्रसङ्गेऽपवादमाह--

कुशाः शाकं पयो मत्स्या. गन्धाः पुष्पं दधि क्षितिः ।
मांसं शय्यासनं धानाः प्रत्याख्येयं न वारि च ।। २१४ ।।

धानाः भ्रष्टयवाः । क्षितित्तिका । शेषं प्रसिद्धम् । एतञ्च कुशादिकं स्वयमुपा नीतं न प्रत्याख्येयम् । चकारादृहादि (मनुः ४॥२५०)–‘शय्यां गृहान्कुशा न्गन्धानपः पुष्पं मणीन्दधि । धाना मत्स्याल्पयो मांसं शाकं चैव न निर्गुदेत् ॥ तथा-“एधोदकं मूलफलमझमभ्युद्यतं च यत् । सर्वतः प्रतिगृह्णीयान्मध्वथा भयदक्षिणाम् ।।' इति (४॥२४७) मनुस्मरणात् ॥ २१४ ॥
किमिति न प्रत्याख्येयमित्याह--

अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः ।
अन्यत्र कुलटाषण्ढपतितेभ्यस्तथा द्विजः ।। २१५ ।।


१ दानेन क. । २ प्रबलं शात्वा ग. ३ भ्रष्टतन्दुलाः क. प्रा ४ मध्वाज्याभय . ग.