पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतिः " [प्रायश्चित्ताध्यायः... शुचिर्भवेत्। तान्येव स्वानि संस्पृश्यतः स्यात्परिमार्जनात्' ।। इति । तथा च शङ्ख:--'रथ्याकर्दमतोयेन ष्ठीवनायेन वा तथा । नाभेरू- धं नरः स्पृष्टः सद्यः स्नानेन शुध्यति' ॥ इति । यमेनाप्यत्र विशेष उक्त:--'सकर्दमं तु वर्षासु प्रविश्य ग्रामसंकरम् । जङ्घयोमृत्तिका स्तिस्त्रः पादयोर्द्विगुणास्ततः ॥ इति । ग्रामसंकरं ग्रामसलिलप्रवाह- प्रदेशं सकर्दमं प्रविश्येत्यर्थः। मारुतशोपिते तु कर्दमादौ न दोषः। 'रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः। मारुतेनैव शुध्यन्ति प. केष्टकचितानि च ॥ इति प्रागुक्तत्वात् । अस्थनि मनुना विशेष उ. का (५२८७ )--'नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुद्ध्यति । आचम्यैव तु निःस्नेहं गां स्पृष्ट्या वीक्ष्य वा रविम्' ॥ इति । इदं द्विजातास्थिविपयम् । अन्यत्र वसिष्ठोक्तम्-'मानुपास्थि स्निग्धं स्पृष्ट्वा त्रिरात्रमाशौचमस्निग्धे त्वहोरात्रम्' इति । आमनुषे तु वि. पुणूक्तम्--'भक्ष्यवयं पञ्चनखशवं तदस्थि च सस्नेहं स्पृष्टा स्नातः- पूर्ववस्त्रं प्रक्षालितं विभृयात्' इति । एवमन्येऽपि स्नानार्हाः स्मृत्य. न्तरतोऽववोद्धव्याः। एवं स्नानार्हाणां चहुत्वात्तदभिप्रायं तैरिति बहुवचनमविरुद्धम् । उदक्याशुचिभिः स्नायादित्ये(१)तच्च दण्डा. धचेतनव्यवधानस्पर्श वेदितव्यम् । चेतनव्यवधाने तु मानवम् (म०५ । ८५)--'दिवाकीर्तिमुदपयां च पतितं सुतिकां तथा । शवं तत्स्(२)टिनं चैव स्पृष्ठा स्नानेन शुध्यति ॥ इति । तृतीयस्य त्वाचा मनमेव । 'तत्स्पृष्टिनं स्पृशेद्यस्तु स्नानं तस्य विधीयते । ऊर्ध्वमाच. मनं प्रोक्तं द्रव्याणां प्रोक्षणं तथा ॥ इति संवर्तस्मरणात् । एतच्चा. बुद्धिपूर्वकविषयम् । मतिपूर्वे तु तृतीयस्यापि वानमेव । यथाह गौ। तमः--'पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्टयुपस्पर्शने स. चैलमुदकोपस्पर्शनाच्छुध्येत्' इति । चतुर्थस्य त्वाचमनम्-'उप. स्पृश्याशुचिस्पृष्टं तृतीयं वापि मानवः । हस्तौ पादौ च तोयेन प्रक्षाल्याचम्य शुध्यति' ॥ इति देवलस्मरणात् । अ(३)शुचीनां पुन- रुदक्यादिस्पर्श देवलेन विशेष उक्त:--'श्वपाकं पतितं व्यङ्गमुन्म- तं (४)शवहारकम् । सुतिका साविकां नारी रजसा च परिप्लु. ताम् ॥ श्वकुक्कुटवराहांश्च ग्राम्यान्संस्पृश्य मानवः । सचैल: (१)च्चाण्डालायचेतन ख०। (२) तमेव तु स्पृशेव ख० । • (३) अशुचिनो पुनः खः । (१) शवदाहकं 601