पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आशौचप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८१५ म्नायि 'मनसा वा इषिता वाग्वदति' इत्यादि । ज्ञानं चाध्यात्मिक बुद्धिशुद्धौ निदान, यथाभिधास्यति 'क्षेत्रस्येश्वरज्ञानात्' इति । तपश्च कृच्छ्रादि, यथा वदिष्यति 'प्राजापत्यं चरेत्कृच्छ्रे समा वा गुरुतल्पगः' इत्यादि । तथा जलमपि शरीरादेः, यथा जल्पिष्यति 'वर्मणो जलम्' इति । पश्चात्तापोऽपि शुद्धिजनकः, यथा गदित 'ख्यापनेनानुतापेन' इति । निराहारोऽपि शुद्ध्युपादानं, यथा व्याहरिष्यति 'त्रिरात्रोपोषितो ज()प्त्वा' इत्यादि ॥ ३१ ॥ (मिता०) किञ्च- ___ अकार्येत्यादि । अकार्यकारिणां निषिद्धसेविनां दानमेव मुख्य शुद्धिकारणं, यथा व्याख्यास्यति 'पाने धनं वा पर्याप्तं दत्वा' इति । नद्याः निदाघादावल्पतोयतया अमेध्योपहततीरायाः कूलङ्कषवर्षा म्वुप्रवाहवेगः शुद्धिकृत् । शोधनीयस्य द्रव्यस्य मृञ्च तोयं च शुद्धि. कृत्, यथेह भणितम् 'अमेध्याक्तस्य मृत्तोयैः शुद्धिर्गन्धापकर्षणात्' इति । संन्यासः प्रव्रज्या द्विजन्मनां मानसापचारे शुद्धिकृत् । तपो वेदाभ्यासो वेदविदां शुद्धिकारणम् । कृच्छादि तु सर्वसाधारणं न. वेदविदामेव । क्षान्तिरुपशमो विदुषां वेदार्थविदाम् । वर्मणः शरी- रस्य जलम् । प्रच्छन्नपापानामविख्यातदोषाणां अघमर्षणादिसूक्त. जपः शुद्धिकारणं शुद्धिसाधनम् । मनः सदसत्सङ्कल्पात्मकं तस्या- सत्सङ्कल्पत्वादशुद्धस्य सत्यं साधुसङ्कल्पः शो(२)धकम् । भूतश. ब्देन तद्विकारभूतो देहेन्द्रिय(३)सङ्को लक्ष्यते । तत्र स्थूलोऽहं का. णोऽहं वधिरोऽहमित्येवं तदभिमानित्वेन योऽयमात्मा वर्तते। स भूतात्मा तस्य तपोविद्ये शुद्धिनिमित्ते । तपःशब्देनानेकजन्मस्वेक- स्मिन्नपि वा जन्मनि (४)जागरस्वप्नसुषुप्त्यवस्थास्वात्मनो योऽय. मन्वयः, शरीरादेश्च व्यतिरेकः सोऽभिधीयते । यथा 'तपसा ब्रह्म विजिज्ञासस्व' इति पञ्चकोशव्यतिरेकप्रतिपादनपरे वाक्ये। विद्या. शब्देन चौपनिषदं 'अस्थूलमनण्वहस्वमसङ्गो ह्ययमात्मा' इत्यादि त्वंपदार्थनिरूपणविषयवाक्यजन्यं ज्ञानमुच्यते । एताभ्यामस्य शुद्धिः। शरीरादिव्यतिरेकबुद्धेः संशयविपर्ययरूपत्वेनाशुद्धायाः प्रमाणरूपं (१) जले इत्यादि। (३) न्द्रियसम्बन्धो रु.। (२) शोधनम् छ । (४) जाग्रत्स्वप्न ख. ।