पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८१६. . याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः ज्ञान विशोधनम् । क्षेत्रज्ञस्य तपोविद्याविशुद्धस्य त्वंपदार्थभूतस्य तत्त्व (१)मस्यादिवाक्यजन्यात्साक्षात्काररूपादीश्वरज्ञानात् (२)परमा वि.. शुद्धिर्मुक्तिलक्षणा । यथैताः शुद्धयः परमपुरुषार्थास्तवाक्ततरा का. लशुद्धिरपीत्येवं प्रशंसाथै भूतात्मादिविशुभिधानम्॥३२-३३-३४॥ इत्याशौचप्रकरणम् । ... (वी०मि०) 'आपद्यपि च कष्टायां सद्यः शौचं विधीयते' इत्या- पदि मुख्याशौचापवादेन सद्यः शौचमनुकल्प्य तत्प्रसङ्गेनापदि. मुख्यवृत्तिसम्भवानुकल्परूपं वृत्यन्तरमाह नवभिश्लोकः-. क्षात्रेण कर्मणा जीवे द्विशां वाप्यापदि द्विजः॥ निस्तीय तामथात्मानं पावयित्वा न्यसेत्पथि ॥ ३५ ॥ फलोपलक्षौमसोममनुष्यापूपवीरुधः॥ तिलौदनरसक्षारान् दधि क्षीरं घृतं जलम् ।। ३६ ॥ शस्त्रासवमधूच्छिष्टं मधु लाक्षा च घर्हिपः॥ मृचर्मपुष्पकुतुपकेशतक्रविपक्षितीः ।। ३७ ॥ कौशेयनीललवणमांसैकशफसीसकान् ।। शाकाद्रौषधिपिण्याकपशुगन्धास्तथैव च ॥ ३८ ॥ वैश्यवृत्यापि जीवन्नो विक्रीणीत कदाचन ॥ धर्मार्थ विक्रयस्तेषां(३) तिला धान्येन तत्समाः ॥ ३९ ॥ लाक्षालवणमांसानि पतनीयानि विक्रये ॥ पयो दधि च मधं च हीनवर्णकराणि च ॥४०॥ आपद्गतः सम्प्रगृह्णन् भुञ्जानोऽपि यतस्ततः ।। (४)न लिप्यतैनसा विप्रो ज्वलनासमो हिसः॥४१॥ । आपदि अवलानां मुख्यवृत्या भरणासम्भवे द्विजो ब्राह्मण . (१) तत्वमसीत्यादि ख. (९) परमात्मशुद्धिः खः । (९) धर्मार्थ विक्रय नेयास्तिला-इति मु. पु. पाठः। (४)न लुप्यो ब्राह्मण, किन्तु-इति क.पु. पाठः।