पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८१७ आपद्धर्मप्रकरणम् ।] वीरमित्रोदयमिताक्षरासहिता। क्षत्रियसम्बन्धिना कर्मणा जीवनोपायेन शस्त्रग्रहणादिना तदसम्भवे विशां कर्मणा वाणिज्यादिना जीवेत् न तु शूद्रवृत्या । अथ परकी. यवृत्याश्रयणानन्तरं निस्तीर्य प्रायश्चित्तेनाऽऽत्मानं पावयित्वा पथि स्वकीयजीवनोपाये न्यसेत् अथवा भुक्तावशिष्टमापत्कालार्जितं धनं पथि न्यसेत् त्यजेदित्यर्थः । अपिकारेण क्षत्रियो वैश्यवृत्त्या वैश्यः शुद्रवृत्त्या जीवेदापदीति समुच्चीयते । 'अजीवन्तः स्वधर्मेणाऽन: न्तरां पापयिसी वृत्तिमातिष्ठेरन्न तु कदाचिज्ज्ययसी'मिति वसिष्ठ. स्मरणात् । शूद्रस्य तु वणिग्वृत्त्या जीवनमापदि प्रथमाध्याये: ग्रन्थ कृताऽभिहितम् । वैश्यवृत्त्या जीवन्नपि ब्राह्मणः फलादीनि न विक्री णीतेत्युत्सर्गः । यतो लाक्षादीनि विक्रय कृते तस्य पातकराणि, पयः- प्रभृतीनि च शूद्रत्वकराणि विक्रये सति भवन्ति । अनाऽपवादः- फलादीनां धर्मसाधनीभूतद्रव्यसम्पादनार्थ विक्रयोऽपापः । तत्रैव तिला धान्येनैव विक्रया न तु रजतादिना तत्समा धान्यपरिमाणा न तु न्यूनाधिकपरिमाणाः । यदि तु क्षत्रियवृत्त्या वैश्यवृत्या वा जीवनं न सम्भवति तदा विप्र आपगतः सन् यतस्ततो हीनहीनत रेभ्यः पतितभिन्नेभ्यः सम्यक् वृत्त्युपयोग्यधिकधनवैमुख्य प्रगृह्णन् धनान्नादिकं 'भुजानो वान्नं नैनसा पापेन लिप्यते । हि यतः सवि. प्रोऽग्निसूर्यवद्धीनसङ्करोऽप्यदुष्ट एव तिष्ठति । फलं वरेङ्गुदव्यतिरि. तं 'फलानां बदरेङ्गुन्दे' इति विक्रय्यमुपक्रम्य नारदवचनात् । उपलं म. ‘ण्यादिकमश्ममात्रं, क्षौममतसीसूत्रनिर्मितं वस्त्रं, सोमो लताविशेषा यशसाधनं, वीरुधो गुडूच्यादिलताः, रसा इक्षुगुडादयः, (१)क्षारा · यवक्षारादयः, आसवो मद्य, मधूच्छिष्टं सिक्थं, बर्हिषः कुशाः, कुतप ऊसूत्रनिर्मितकम्बलः, कौशेयं कृमिकोशोत्थं पट्टवस्त्रादि, एकशंफा अश्वादयः, सीसं लोहमानोपलक्षकम् , आर्द्रा ओषधयो धान्यस्तम्बादयः, पिण्याकस्तिलकल्कः, पशुवादिः, गन्धः कुङ्क- मादिः। शेषाः प्रसिद्धाः । तथाशब्दचकाराभ्यां रकवस्त्रतैलादीनां ससुच्चयः । तदाह मनु:- . सर्व च तान्तवं रक्तं शाणक्षीमाविकानि च । अपि चेत्स्युररक्तानि फलमूले तथौषधीः ॥ (१) क्षारा-इत्यारभ्य अश्वादयः-इत्यन्तो भागः ख० पुस्तके नास्ति ।