पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८१८ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः ।। तथा- अपः शस्त्रं विपं मांसं सोमं गन्धाश्च सर्वशः। क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं (१)कुशान् ॥ इत्यादि । एवकारो धर्मार्थमित्यनाऽन्वितः । मद्यं चेति चका. रेण कथितपटकाऽतिरिक्तफलादिग्रहणम् । तद्विक्रये वैश्यत्वापादान: ब्राह्मणस्येति चरमचकारेण समुच्चीयते । तदाह मनुः- सद्यः पतति मासेन लाक्षया लवणेन च । यहेण शुद्रो भवति ब्राह्मणः क्षीरविक्रयातू ।। इतरेपामपण्यानां विक्रयादिह कामतः। ब्राह्मणः सप्तरात्रेण वैश्यभावं निगच्छति ॥ अत्र ब्राह्मण इत्यभिधानान्न क्षत्रियादेः फलादिविक्रये दोष इति दिक् ॥ ३५-४१॥ (मिता०) 'आपद्यपि च कष्टायां सद्यः शौचं विधीयते' इत्या. पदि मुख्याशौचकल्पानामनुष्टानासम्भवेन सद्यःशौचाद्यनुकल्प. मुक्त्वेदानी तत्प्रसङ्गादापदि 'प्रतिग्रहोऽधिको विप्रे याजनाध्यापन: तथा' इत्याधुक्तयाजनादिमुख्यवृत्यसम्भवेन वृत्त्यन्तरमाह- क्षाणति । द्विजो विनो बहुकुटुम्बतया स्ववृत्त्या जीवितुमः समर्थः क्षेत्रसम्बन्धिना कर्मणा शस्त्रग्रहणादिना आपदि जीवेत् । तेनापि जीवितुमशक्नुवन् वैश्यसम्बन्धिना कर्मणा वाणिज्यादिना: जीवेत् न शूद्रवृत्त्या । तथा च मनुः ( १०८२)-'उभाभ्यामप्य. जीवस्तु कथं स्यादिति चेद्भवेत् । कृपिगोरक्षमास्थाय जीद्वैश्यस्य जीविकाम् ॥ इति । तथा आपद्यपि न हीनवर्णन ब्राह्मी वृत्तिराथ. यणीया किन्तु ब्राह्मणेन क्षात्री, क्षत्रियेण वैश्यसम्बन्धिनी, वैश्येन च शौद्रीत्येवं स्वानन्तरहीनवर्णवृत्तिरेव ।.'अजीवन्तः स्वधर्मणा.. नन्तरां पापीयसी वृत्तिमातिष्ठेरनतु कदाचिज्ज्यायसीम्' इति 'वसिष्टरमरणात् । ज्यायसी च ब्राह्मी वृत्तिः। तथा चं स्मृत्यन्त. तरम्-'उत्कृष्टं वापकृष्टं वा तयोः कर्म न विद्यते । मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते' ॥ इति । शुद्रस्योत्कृष्ट ब्राह्मं कर्म न विद्यते । तथा ब्राह्मणस्यापकृष्टं शौद्रं कर्म। मध्यमे क्षत्रवैश्यकर्मणी (१) गुडेतुजान्--इति क० पु० पाठः ।