पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपद्धर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८११ 'पुनरापद्गतसर्ववर्णसाधार(१)ण इति । शूद्रश्वापद्तो वैश्यवृत्त्या 'शिल्पैर्वा जीवेत् । 'शूद्रस्य द्विजशुश्रूषा तयाऽजीवन्वणिग्भवेत् । 'शिल्पैर्वा विविधैर्जीवेद्विजातिहितमाचरन्' ॥ इति प्रागुक्तत्वात् । मनुना चात्र विशेषो दर्शितः (१०।१०० )-यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः । तानि कारुककर्माणि शिल्पानि विविधानि च' ॥ इति । अनेनैव न्यायेनानुलोमोत्पन्नानामपि स्वानन्तरा वृत्ति. 'रूहनीया । एवं स्वानन्तरहीनवर्णवृत्त्या आपदं निस्तार्य प्रायश्चि. त्ताचरणेनात्मानं पावयित्वा पथि न्यसेत् स्ववृत्तावात्मानं स्थाप. येदित्यर्थः । यद्वायमर्थः गर्हितवृत्यार्जितं धनं पथि न्यसेदुत्सृजे. दिति । तथा च मनुः (१०११११)-'जपहोमैरपैत्येनो याजनाध्या. पनैः कृतम् । प्रतिग्रहनिमित्तं तु त्यागेन तपसैव तु' ॥ इति ॥ ३५ ॥ (मिता) वैश्यवृत्यापि जीवतो ब्राह्मणस्य यदपणनीयं तदाह- फलोपलेत्यादि । नो विक्रीणीतेति प्रत्येकमभिसम्बध्यते । फ. लानि कदलीफलादीनि बदरेङ्गुदव्यातिरिकानि । यथाह नारद:- "स्वयं शीर्णानि पर्णानि फलानां बदरेगुदे । रज्जुः कापीसिकं सूत्रं तम्चेदविकृतं भवेत् ॥ इति । उ(२)पलं मणिमाणिक्याचश्ममात्रम् । क्षौममतसीसूत्रमयं वस्त्रम् । क्षौमग्रहणं तान्तवादेरुपलक्षणम् । यथाह मनुः ( १०८७)-'सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च । अपि चेत्स्युररक्तानि फलमूले तथौषधीः' इति । सोमो लताविशेषः। -मनुष्यपदेनाविशेषास्त्रीपुंनपुंसकानां ग्रहणम् । अपूपं मण्डकादि भक्ष्यमात्रम् । वीरुधो वेत्रामृतादिलताः। तिलाः प्रसिद्धाः। ओदन. ग्रहणं भोज्यमात्रोपलक्षणम् । रसा गुडेक्षुरसशर्करादयः । तथा च मनुः (१०।८८)-क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान्! इति । क्षारा यवक्षारादयः । दधिक्षीरयोग्रहणं मस्तुपिण्डकिलाट. कूचिकादीनां तद्विकाराणामुपलक्षणम् । 'क्षीरं सविकारम्' इति गौतमस्मरणात् । घृतग्रहणं तैलादिस्नेहमात्रोपलक्षणम् । जलं प्रासद्धम् । शस्त्रं खड्गादि । आसवग्रहणं मद्यमात्रोपलक्षणम् । मधूच्छिष्टं सिक्थकम् । मधु क्षौद्रम् । लाक्षा जतु । बर्हिषः कुशाः। मृत प्रसिद्धा । चर्माऽजिनम् । पुणे प्रसिद्धम् । (३)अजलोमकृतः (१) साधारणे हि ते इति ख. ( २ ) उपलं माणिक्यादि खः ।( ३.) अशोणलोमकृतः ।