पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२० . याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः । कम्बलः कुतपः। केशाश्चमर्यादिसम्बद्धाः । तक्रमुदश्वित् । विष शृङ्गयादि । क्षितिभूमिः । 'नित्यं भूमिव्रीहियवाजाव्यश्वर्षभधेन्वन- हुहश्चैके' इति सु(२)मन्तुस्मरणात् । कौशेयं कोशप्रभवं वसनम् । नीलं नीलीरसम् । लवणग्रहणेनैव विडसौवर्चलसैन्धवसामुद्रसो. मककृत्रिमाण्यविशेषेण गृह्यन्ते । मांसं प्रसिद्धम् । एकशफा हया. दयः । सीसग्रहणं लोहमानोपलक्षणम् । शाकं सर्वमविशेषात् । ओषधयः फलपाकान्ताः । आद्रपधय इति विशेपोपादानाच्छु- केपु न दोपः । पिण्याकः प्रसिद्धः । पशव आरण्याः (१०८९)- 'भारण्यांश्व पशून्सवान्दष्ट्रिणश्च वयांसि च' इति मनुस्मरणात् । गन्धाश्चन्दनागुरुप्रभृतयः । सर्वानेतान्वैश्यवृत्त्या जीवन्ब्राह्मणः कदाचिदपि न विक्रीणीत । क्षत्रियादेस्तु न दोपः। अत एव नार. देन-'वैश्यवृत्तावविक्रेयं ब्राह्मणस्य पयो दधि' इति ब्राह्मणग्रहणं कृतम् ॥ ३६-३७-३८ ॥ (मिता०) प्रतिप्रसवमाह- धर्मार्थमिति । यद्यावश्यकाः पाकयज्ञादिधर्माः स्वसाधनबीहाः दिधान्याभावे न निष्पद्यन्ते तर्हि धान्येन तिला विक्रय नेयाः । तत्समाः द्रोणपरिमिता, द्रोणपरिमितेनेत्येवं तेन धान्येन समाः । तथा च मनुः ( १०.९० )-'काममुत्पाद्य (२)कृप्यातु स्वयमेव कृषीवलः । विक्रीणीत तिलान्शुद्धान्धर्मार्थमचिरस्थि. तान् ॥ इति । धर्मग्रहणमावश्यकभेषजाधुपलक्षणम् । अत एव नारद:-'अशक्ती भेपजस्यार्थे यशहेतोस्तथैव च । यद्यवश्यं तु. विक्रेयास्तिला धान्येन तत्समाः ॥ इति । यद्यन्यथा विक्रीणीत तर्हि दोषः (१०९१)-'भोजनाभ्यअनादानाद्यदन्यत्कुरुते तिलैः। कृमिभूत्वा श्वविष्ठायां पितृभिः सह मज्जति' ॥ इति मनुस्मरणात् । सजातीयैः पुनर्विनिमयो भवत्येव (मनुः १०९४) 'रसा रसैनि: मातव्या (३)नत्वेव लवणं रसैः । कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः ॥ इति । कृतानं सिद्धानं तय कृतान्नेन परिवर्तनी(४)यम् । 'कृतान्नं चाकृतान्नेन' इति पाठे तु सिद्धमनमकृतान्नेन तण्डुलादिना परिवर्तनीयमिति ॥ ३९ ॥ (१) गौतमस्मरणाव क. क. (२) कृष्यो तु क. स्व.। (१) नत्वेवं लवणं ख. (१) नीयमिति यावत् क. ख.।