पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपद्धर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८२३ जीवनमित्यत आह-- बुभुक्षित इति । धान्याभावेन निरानं बुभुक्षितोऽनश्नन् स्थित्वा अब्राह्मणाच्छूद्रात्तदभावे वैश्यात् तदभावे क्षत्रियाद्वा हीनकर्मण एकाहपर्याप्तं (१)धान्यमाहरेत् । यथाह मनुः (६-१९७)-'तथैव सप्तमे भक्ते भक्तानि षडनश्नता । अश्वस्तनविधानेन हर्तव्यं हीन. कर्मणः ॥ इति । तथाच प्रतिग्रहोत्तरकालं यदपहतं तद्धर्मतो यथा- वृत्तमाख्येयम् । यदि (२)नाष्टिकेन स्वामिना त्वयेदं कि (३)नामा. पहृतमित्यभियुज्यते । याह मनु:-'खलाक्षेत्रादगाराद्वा यतो वाप्युपलभ्यते । आख्यातव्यं तु तत्तस्मै पृच्छते यदि पृच्छति' । इति ॥४३॥ (वी० मि० ) एवं चोरयितुरदण्डनीयत्वं सूचयन्नेव तादृशाप- अस्ते राजकृत्यमाह- तस्य वृत्तं कुलं शीलं श्रुतमध्ययनं मु(४)तान् । ज्ञात्वा राजा कुटुम्बा(५)थ धयाँ वृत्ति प्रकल्पयेत् ॥४४॥ तस्य व्यहोपवासानन्तरं धान्यचौर्यकर्तुर्विप्रादिकं ज्ञात्वा साधु- त्वेन तं निश्चित्य सुतान् भृत्यवर्गान् तदीयान् ज्ञात्वा तत्कुटुम्बभ- रणार्थं धर्मादनपेतां वृत्ति राजा कल्पयेत् । अन्यथा त्वाह मनुः-- यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा। तस्य सीदति तद्राष्ट्र दुर्भिक्षव्याधिपीडितम् ॥ इति । श्रुताध्ययनयोः शब्दग्रहणार्थकतया भेदः ॥ ४४ ॥ इति श्रीमत् याज्ञवल्क्यव्याख्याने आपद्धर्मप्रकरणम् । unecorons (मिता०) इमपरमापत्प्रसङ्गाद्राज्ञो विधीयते- तस्येति । योऽश(६)नायापरीतोऽवसीदति तस्य वृत्तमाचार,, कुलमाभिजात्यं, शीलमात्मगुणं, श्रुतं शास्त्रश्रवणं, अध्ययनं वेदा. ध्ययन, तपः इच्छादि च परीक्ष्य राजा धर्मादनपेतां वृत्ति प्रकल्प. येत् । अन्यथा तस्य(७) दोषः। तथा च मनुः [७१३४]-'यस्य (१) धान्य हरेत् । (२) नास्तिकेन। (३ ) ममापहृतमिति ख.। (५) तंप:-इति मु० पु० पाठः। (५) कुटुम्ब च-इति मु० पु० पाठः । (६) योशनया ख.। (७) राज्ञो दोषः ।