पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- याज्ञवल्क्यस्मृतिः [प्रायश्चित्ताध्यायः । रावस्तु विषये श्रोत्रियः सीदति क्षुधा । तस्य सीदति तद्राष्ट्रं दुर्मि- क्षव्याधिपीडितमः ॥ इति ॥४४॥ __इत्यापद्धर्मप्रकरणम् । (वी० मि० ) चतुर्णामाश्रमिणां मध्ये ब्रह्मचारिगृहस्थयोधर्मा अभिहिताः, इदानीं वानप्रस्थधर्मानाह सम्पूर्णप्रकरणेन-- मुतविन्यस्तपनीकस्तया (१)चाऽनुगतो वनम् ।। वानप्रस्थो ब्रह्मचारी सामिः सोपासनो व्रजेत् ॥ ४५ ॥ . वने प्रकर्षण नियमविशिष्टेन तिष्ठतीति वनप्रस्था, वनप्रस्थ एव वानप्रस्थः इति भाविनी संज्ञा । सुते भरणार्थ समर्पितपत्नीका, पल्याः पतिपरिचर्याभिलाषित्वे तया पत्न्याऽनुगतो ब्रह्मचारी मेथु ननिवृत्तः साग्निः नेताग्निसहितः सोपासनो गृह्याग्निसहितश्च वनं बजेत् । प्रस्थानसमय एव पत्नी पतिकर्तृकाग्निहोत्रमनुमन्यत इति सुतविन्यासपक्षेऽग्नेनयनं घटते ॥ ४५ ॥ (मिता०) चतुर्णामाश्रमिणां मध्ये ब्रह्मचारिगृहस्थयोर्धर्माः प्रति. पादिताः । साम्प्रतमवसरप्राप्तान्वानप्रस्थधर्मान्प्रतिपादयितुमाह- सुतेति । वने प्रकर्पण नियमेन च तिष्ठति चरतीति वनप्रस्थः वनप्रस्थ एव वानप्रस्थः । संज्ञायां देयम् । भाविनी वृत्तिमाश्रित्य घनं प्रतिष्ठासुरिति यावत । असौ सुतविन्यस्तपत्नीकः त्वयेवं भरणीयेत्येवं सुते विन्यस्ता विक्षिप्ता पत्नी येन स तथोकः । यदि सा पतिपरिचर्याभिलाषेण स्वयमपि वन जिगमिषति तदा तयानुगतो वा सहितः तथा ब्रह्मचारी ऊर्ध्वरेताः साग्निवताना. ग्निसहितः तथा सोपासनो गृह्याग्निसहितश्व वनं व्रजेत् । सुत. विन्यस्तपलीक इति वदता कृतगार्हस्थ्यो (शवनवासेऽधिक्रियत इति दर्शितम् । एतञ्चाश्रमलमुच्चयपक्षमङ्गीकृत्योक्तम् । इतरथा 'अविप्लतब्रह्मचर्यो यमिच्छेत्तु तमावसेत्' इत्यकृतगार्हस्थ्योऽपि वनवासेऽधिक्रियत एव । अयं च वनप्रवेशो जराजर्जरकलेवरस्य जातपौत्रस्य वा । यथाह मनुः (६२)-'गृहस्थस्तु यदा पश्यद्व- (१) वाऽनुगतो--इति मु० पु० पाठः। (२) वानप्रस्थो वनवासे ख.। .