पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वानप्रस्थधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८२५ लीपलितमात्मनः । अपत्यस्यैव वाऽपत्यं तदारण्यं समाश्रयेत् ॥ इति । अयं च पुत्रेषु पत्नीनिक्षपो विद्यमानभार्यस्य । मृतभार्यस्या- प्यापस्तम्बादिभिः वनवासस्मरणात् । अतो 'यत् दाहयित्वाऽग्निहो- बेणे ति पुनराधानविधानं तदपरिपक्वकषायविषयम् । साग्निः लोपासन इत्यत्रापि (१)यदार्धाधानं कृतं तदा श्रौताग्निभियेण च सहितो वनं व्रजेत् । सर्वाधानं तु श्रौतैरेव केवलम् । यदि कथ ञ्चिज्येष्ठभ्रातुरनाहिताग्नित्वादिना श्रोताग्नयोऽनाहितास्तहि केवलं सोपासनो बजेदित्येवं विवेचनीयम् । अग्निनयन च तन्निवाग्नि- होत्रादिकर्मसिद्ध्यर्थम् । अत एव मनुः (६९)--वैतानिकं च जुहुयादग्निहोत्रं यथाविधि । (२)दर्शमस्कन्दयन्पर्व पौर्णमासं च. शक्तितः' ।। इति । ननु च पुननिक्षिप्तपत्नीकस्य तद्विरहिणः कथ. मग्निहोत्रादिकर्मानुष्ठानं घटते। पत्न्या सह यष्टव्यमिति लहा. धिकारनियमात् । सत्यमेवं, फिन्त्वत्र पत्तीनिक्षेपविधिवलादेव (३)तन्न. रपेक्ष्येणाधिकारः कल्प्यते । यथा हि रजस्वलायां 'यल्य (४)व्रत्ये। ऽहनि पत्न्याना(५)लम्भुका स्यात्तामप(६)रुध्य यजेते'त्यपरोधवि- धिवलात्तनिरपेक्षता । यद्वा वनं प्रतिष्ठमानमेव पति पत्न्यनुमन्यत इति न विरोधः । न च यथा ब्रह्मचारिणा विधुरस्य वा वनं प्रस्थि. तस्याग्निहोत्रादिपरिलोपस्तथा निक्षिप्तपत्नीकस्याप्यग्निहोत्राधभाव. इति शङ्कनीयम् । अपाक्षिकत्वेन श्रवणात् । न च ब्रह्मचारिविधुरयो. रप्याग्निसाध्यकर्मस्वनधिकारः। पश्चममासा माहितश्रावणिका. ग्नेस्तदधिकारदर्शनात् । 'वानप्रस्थो जटिलश्चीराजिनवासा न फालकृष्टयधितिष्ठेत् अकृष्टं मूलफलं सञ्चिन्वीत ऊर्ध्वरेताः क्ष्मा- शयो दद्यादेव न प्रतिगृह्णीयादूर्व पञ्चभ्यो मासेभ्यः श्रावणिके. ना(७)ग्नीनाधायाहिताग्निर्वृक्षमूलको दद्यादेवपितृमनुष्येभ्यः स गच्छेत्स्वर्गमानन्त्यम्' इति वसिष्ठस्मरणात् । चीरं वनखण्डो वल्कलं वा । न फालकृष्टमधितिष्ठेत्कृष्टक्षेत्रस्योपरि न निवसेत् । श्रावणिकेन वैदिकेन मार्गेण न लौकिकेनेत्यर्थः ॥४५॥ .. (१) अर्धाधानं स्मृतं श्रौतस्मातरियोस्तु पृथक्कृतिः । सवाधान तयोरक्यकृतिः पूर्वयुगा- प्रया ॥ प्रेतापरिग्रहः सर्वाधानम्। (२) दर्शमास्कन्दयन् न. । . (३) ननिरपेक्षेणाधिकारः रु.। (१) वात्येऽहनि । (५) लम्भिका रु. । (१) अवरुभ्य यजेतेत्यवरोध. क. ख । (0) नाग्निमाधाय:ख. । . ... .९४॥