पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतिः। [प्रायश्चित्वाध्यायः । अफालकृष्टेनानींश्च पितृन देवातिथीनपि ॥ भृत्यांश्च तर्पयेच्छ्मश्रुजटालोमभृदात्मवान् ॥ ४६ ॥ (वी० मि.) कर्षणं विनैवोत्पन्नेन नीधारादिनाऽग्न्यादीन् तर्प. येत् । अग्नितर्पणमग्निहोत्रम्। आधेन चकारेणाऽग्निहोत्रसाधनगोमयादि. दातृगवां, चरमेण स्वस्य समुच्चयः। अपिकारेण वलिकर्दमोद्देश्य. भून समुच्चयः । लोमपदेन कक्षादिस्थं लोम विवक्षितम् । जटाश्च विभृयान्नित्यं श्मश्रुलोमनखानि च । इति मनुः । आत्मवानात्मोपासनरतः सन् ॥ ४६ ॥ (मिता० ) 'साग्निः सोपासनो बजे दित्येतदग्निसाध्यश्रौतस्मा: तकर्मानुष्ठानार्थमित्युक्तं, तम गुणविधिमाह- ___ अफालेति। फालग्रहणं कर्षणसाधनोपलक्षणम् । अष्टक्षेत्रो. द्भवेन नीवारवेणुश्यामाकादिना अग्नीस्तर्पयेदग्निसाध्यानि कर्माण्य- नुतिष्ठत् । चशब्दाद्भिक्षादानमपि तनैव कुर्यात् । तथा पितृन्देवान. तिथीन् अपिशब्दाद् भूतान्यपि तेनैव तर्पयेत्। तथा भृत्यान् चशब्दा. दाश्रमप्राप्तानपि । तथा च मनुः (६७)-'यद्भक्ष्यं स्यात्ततो दद्या. द्वलि भिक्षां च शक्तितः । अम्मूलफलभिक्षाभिरचंयेदाथमागतान् ॥ इति । एवं पञ्चमहायज्ञान्कृत्वा स्वमपि तच्छेपमेव भुञ्जीत । (१२) 'देवताभ्यश्च तद् हुत्वा वन्यं मेध्यतरं हविः। शेपमान्मनि ग्रुखांत लवणं च स्वयंकृतम् ।। इति मनुस्मरणात् । स्वयंकृतमूपरलवणम् । एवं भोजनार्थे यागाद्यर्थे च मुन्यन्ननियमाद्राम्याहारपरित्यागोऽयं. सिद्धः । अत एव मनुः (६३)-'संत्यज्य प्राम्यमाहारं सर्व चैव परिच्छदम्' इति । ननु च दर्शपूर्णमासादेवींद्यादिग्राम्यद्रव्यसाध्य. स्वात्कथं तत्परित्यागः । न च वचनीय(१)मफालटेनानींश्चति वि. शेषवचनसामर्थ्याट्रीह्यादिवाध इति । विशेषविषयिण्यापि स्मृत्या श्रुतिवाधस्यान्याय्यत्वात्, अफालकृष्टविधश्च स्माताशिलाध्यकर्म: विषयत्वेनाप्युपपत्तेः। सत्यमेवं किंवत्र व्रीह्यादेरप्यफालकृष्टत्वस. म्भवान्न विरोधः । अत एवोक्तं मनुना (६९१)'वासन्तशारदैमध्य मुंन्यन्नैः स्वयमाहतः । पुरोडाशांश्चरूंश्चैव विधिवनिवपत्पृथक् ॥ इति । नीवारादीनां मुन्यन्नानां स्वयमुत्पन्नानां स्वतो मेध्यत्व सिद्ध (१) अकालकृष्ट ख.।