पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वानप्रस्थधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८२७ ऽपि पुनर्मेध्यग्रहणं यज्ञाहबाह्यादिप्राप्त्यर्थं कृतम् । मेधो यज्ञस्तदर्ह मेध्यमिति । तथा श्मश्रूणि मुखजानि रोमाणि जटारूपांश्च शिरोरु. हान्कक्षादीनि च रोमाणि बिभृयात् । रोमग्रहणं नखानामप्युपल. क्षणम् । तथा च मनु:-'जटाश्च बिभृयान्नित्यं श्मनुलोमनखांस्तथा। इति । तथात्मवानात्मोपासनाभिरतः स्यात् ॥ ४६ ॥ अहो मासस्य षण्णां वा तथा संवसरस्य च ॥ अर्थस्य सञ्चयं कुर्यात् कृतमाश्वयुजे त्यजेत् ॥ ४७ ॥ ( वी० मि०) दिवसस्य मासस्य चैकस्य षण्णां वा मालाना संवत्सरस्य वा सम्बन्धिभोजनयजनादिपर्याप्तस्याऽर्थस्य द्रव्यस्थ नीवारादेः तथा धर्माविरुद्धप्रकारेण संचयं कुर्यात् । ततोऽधिकस्य कृतं सहीतं विनियुक्तावशिष्टं च द्रव्यमाश्विने मासि त्यजेत् । पुन. रन्यसंचयं कुर्यादित्यर्थः ॥ ४७॥ (मिता०) पूर्वोक्तद्रव्यसञ्चयनियममाह- __ अन्ह इति । एकस्याह्नः सम्बन्धि भोजनयजनादिप्याष्टकर्मणः पर्याप्तस्यार्थस्य सञ्चयं कुर्यात् । मासस्य वा षण्णां मालानां वा सम्वन्धि कर्मपर्याप्त सञ्चयं कुर्यात् नाधिकम् । यद्येवं क्रियमाणमपि कश्चिदतिरिच्यते तर्हि तदतिरिक्तमाश्वयुजे मासि त्यजेत् ॥ ४७ ॥ दान्तस्त्रिषवणस्नायी निवृत्तश्च प्रतिग्रहात् ।। स्वाध्यायवान् दानशीलः सर्वभूत(१)हिते रतः ॥ ४८ ॥ दन्तोलूखलिकः कालपक्काशी वाऽश्मकुहकः ॥ श्रीतं स्मात फलस्नेहैः कर्म कुर्यात्तथा क्रियाः ॥ ४९ ॥ (वी० मि०) दान्तः शीतातपादिदुःखसहिष्णुः, त्रिषु सवनेषु, स्नानशीलः प्रतिग्रहात् शब्दसमुच्चिताद्याजनादेश्च निवृत्तः, स्वा ध्यायवान् वेदाभ्यासरतः, फलमूलभिक्षादिदानशीलः, सर्वेषां भूतानां प्राणिनां हिताचरणे रतः, दन्ता एवोलुखलं निस्तुषीकरणसाधनं यस्य सः, कालवशेन यत्नतः पक्कं बदरीफलनीवारादि तदशन- शीलः, अश्मना कुट्टकोऽवहननकर्ता । वाशब्दात् 'अग्निपक्काशनो वा स्यादिति मनूक्तसङ्ग्रहः । श्रौतमग्निहोत्रादि स्मात वैश्वदेवादि अव. ' (२ ) सत्त्व- इति मु० पु० पाठः ।