पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८३० याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः । ग्रीष्मे चैत्रादिमासचतुष्टये पञ्चाग्निमध्यस्थः तपः पञ्चाग्निसेवनरूपं चरेत् । चतुर्दिक्षु चत्वारोऽनय उपरि च सूर्यात्मकोऽग्निरित्येवं पञ्चा- ऽग्नयः। चर्पासु स्थण्डिलशयो वर्षाधारानिवारणविरहिभूतलशायी स्थण्डिलशयनरूपं तपश्चरेत् । हेमन्ते त्वाद्रवासाः ताशवस्त्रधारणं सार्वकालिकं तपश्चरेत् । एवंविधस्तपश्चरणेऽशक्तः स्वसामर्थ्यानु. सारण शरीरशोपकं तपोन्तरमाचरत् । पशब्देनाऽनुकल्पाचं चरमपक्षस्य सूचितम् ॥५२॥ (मिता० ) किञ्च- ग्रीष्म इति । 'यतुः संवत्सरो प्रोमो वर्षा हेमन्तः' इति दर्श नात् ग्रीष्मे चैत्रादिमासचतुष्टये चतसृपु दिक्षु चत्वारोऽग्नयः उपरि.. पादादित्य इत्येवं पञ्चानामग्नीनां मध्ये निष्ठेत् । तथा वर्षासु श्रावणा. दिमालचतुष्टये स्थण्डिलेशयः वांधाराविनिवारणविरहिणि भूतले निवसेत् । हेमन्ते मार्गशीपादिमासचतुएये झिनं वासो वसीत । एवंविधतपश्चरणे असमर्थः स्वशक्त्यनुरूपं वा तपश्चरेत् । यथा श. रीरशोषस्तथा यतेत । (६२४)-'तपश्चरंश्चोरतरं शोषयेदेहमा- त्मनः' इति मनुस्मरणात् ।। ५२ ।। ___ यः कण्टकैर्वितुदति चन्दनैवाऽनुलिम्पति(१) । अक्रुद्धोऽपरितुष्टश्च समस्तस्य च तस्य च ॥ ५३ ।। (वीमि०) फण्टकैस्तु यो विशेषतस्तुदति व्यथयति तस्या- मुद्धः यश्चन्दनस्तमनुलिम्पति तस्याऽपरितुष्टः उभयोश्च समः उदासीनः स्यात् । पष्ठी विपयत्वपरा । चकाररुदासीनस्य हपशो- काभावयोश्च समुच्चयः ॥ ५३॥ (मिता०)किञ्च- य इति । यः कश्चित्कण्टकादिभिर्विविधमङ्गानि तुदति व्यथयति तस्मै न क्रुध्येत् । यश्चन्दनादिभिरुशलिम्पति सुखयति तस्य न परि- तुप्येत् । किं तु तयोरुभयोरपि समः स्यादुदासीनो भवेत् ॥ ५३॥ (वी० मि०.) अन्नसञ्चयाक्षमत्वेनाऽग्निहोत्राद्यसम्भवे त्वाह- अग्नीवाऽप्यात्मसात्कृत्वा वृक्षावासो मित्ताशनः ॥ .., वानप्रस्थगृहेष्वेव यात्रार्थ भैक्षमाचरेत् ॥ ५४॥ . (१) चन्दनैर्यश्च लिम्पति-इन मु०० पाठः।