पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वानप्रस्थधर्मप्रकरणम् । ] चीरमित्रोदयमिताक्षरासहिता। ८३.३. ग्रामादाहृत्य वा प्रासानष्टौ भुञ्जीत वाग्यतः-11": : वायुभक्षः प्रागुदीची गच्छेदावर्णसंक्षयात् ॥ १५ ॥ वैखानसशास्त्रोक्तविधिनाऽग्नीनात्मनि . समारोप्य मूलफ़ला 'दिना जीवनार्थ वृक्ष एव आवासो वासस्थलं यस्य स, मिताशनः 'परिमितभोजी स्यात् । तदसम्भवे वानप्रस्थानां गृहेषु भैक्षं यात्रार्थ प्राणरक्षणार्थमाचरेत् । एवकारेण गृहस्थव्यवच्छेदः। ततो जीवना- सम्भवे प्रामाद्रामवासिनो गृहस्थसमुदायादाहृत्य अष्टौ ग्रासान् तावता प्राणधारणासम्भवे तु षोडश ग्रासान् वाग्यतो मौनी, भूत्वा भुञ्जीत । सर्वत्रांऽसमर्थस्तु आवर्मसंक्षयात् शरीररक्षणेपर्यन्तं वायु अक्षः सन् प्रागुदीचीमैशानी दिशमकुटिलंगतिगच्छेत् । स्मृत्यन्तरे- .... अष्टौ ग्रासा मुनभैक्षं वानप्रस्थस्य षोडश। .. अग्नीनात्मनि वैतानान् समारोप्य यथाविधि: अननिरनिकेतः स्यान्मुनिर्मूलफलाशनः ॥" तथा-. . .. अपराजितां वास्थाय गच्छेहिशमजिह्मगः। स्मृतिः-'वानप्रस्थो वीराध्वानं ज्वलनाम्बुप्रवेशनं भृगुमपतनं चाऽनुतिष्ठेत् । अस्मिन् वानप्रस्थाश्रमे ब्राह्मणक्षत्रिययोरेखाधिकारः। . चत्वारो ब्राह्मणस्योक्ता आश्रमा. श्रुतिदर्शिता.... .. ' क्षत्रियस्य त्रयः.प्रोक्ता द्वावेको वैश्यशूद्रयोः ॥ .... इति योगिसंहितायां प्रन्थकताऽभिहितत्वादिति ॥ ५४-५५॥.... इति श्रीमद याज्ञवल्क्यव्याख्याने वानप्रस्थप्रकरणम्॥ (मिता०) अग्निपरिचर्याक्षम प्रत्याह- . . iir... • अग्नीनिति । अग्नीनात्मनि समारोप्य वृक्षावासों वृक्ष एवं आ- वासं कुटी-यस्य स तथोक्तः । मिताशनः स्वल्पाहारः । अपिशव्दा- स्फलमूलाशनश्च भवेत् । यथाह मनुः (२५.)-अग्नीनात्मनि वैतानान्समारोप्य यथाविधि अनग्निरनिकेत: "स्यान्मुनिर्मूलफलो. शनः ॥ इति । मुनिौनव्रतयुक्तः। फलमूलासंभवेच यावता प्राण. धारणं भवति तावन्मानं भैक्षं वानप्रस्थगृहेष्वाचरेत् ॥ ५४॥ (मिता० ) यदा तु तदसंभवो व्याध्यमिभवो वादा कि कार्य . . .