पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ]. वीरमित्रोदयामिताक्षरासहिता। ८३३ (वी० मि० ) अथ क्रमप्राप्तान संन्यासिधर्मानमिधास्यन् चतुर्थ- माश्रमं प्रस्तौति- वनाद ग्रहाद्वाः कृत्वेष्टिं सार्ववेदसंदक्षिणाम् ॥ माजापत्या. तदन्ते ताननीनारोग्य चात्मनि ॥ १६ ॥ अधीतवेदो जपकर पुत्रवाननदोऽनिमान् ॥ . शतया च यज्ञकृन्मोक्षे मनः कुर्यात्तु नान्यथा ॥ ५७ ॥ वनाद्वानप्रस्थाश्रमात् गृहात् गृहस्थश्रमात वाशब्देनाऽनास्थावा- 'चिना ब्रह्मचर्याश्रमाद्वा काषायपरिपाके सति मोक्षे मोक्षके संन्या. साश्रमे मनः कुर्यात् । अस्मिन्नाश्रमे ब्राह्मणस्यैवाऽधिकारः, याज्ञव- -क्यवचनात् । आत्मन्यग्नीन् समारोध्य ब्राह्मणः प्रबजेद् गृहात् । इत्यभिधाय-- ___ एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः ॥ इत्युपसंहरता. मनुना ब्राह्मणस्यैवाऽधिकारबोधनाच्च । 'ब्राह्मणा: वजन्तीति श्रुतेश्च । सार्ववेदसी सर्वधनसम्बन्धिनी दक्षिणा यस्या. स्तो प्रजापतिदेवताका मिष्टिं ब्रह्मचारिभिन्नः साग्निश्चेत्तदां कृत्वा तदन्त इष्टिकरणानन्तरं वैतानानंग्नीनात्मनि श्रुत्युक्तविधानेनाऽऽरो. 'प्य कृत्वत्यनेन मनः कुर्यादित्येतत्प्रतिबन्धाद्यनिष्टस्यानन्तर्यवोधनेऽपि नेष्टिकरणाग्निसमारोपणयोः पूर्वापरभावो बोधित इति तदन्त इत्यस्य नानर्थक्यम् । पुत्रवानिति कृतदारपरिग्रहपरम् । आद्यचकारात् 'उद- गयने पौर्णमास्यां पुरश्चरणमादौ कृत्वा शुद्धन कायेनाऽष्टौ श्राद्धानि निर्वपेत् द्वादश वेति बौधायनायुक्ततिकर्तव्यतासमुच्चयः । द्वितीय चंकारेण नित्यनैमित्तिककर्मान्तरकृदिति समुच्चितम् । तुशब्दन यथे. छाचरणस्य संन्यासाधिकारी व्यवच्छिद्यते । नान्यथेति। इष्टकरणा- दीतिकर्तव्यतां विनां न संन्यासाश्रमपरिग्रहः कार्य इत्यर्थः । अत्र जावालि:-'ब्रह्मचर्य परिसमाप्य गृही भवेत् गृही भूत्वा वनी भवेत् वनी भूत्वा प्रव्रजेत् यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद् गृहाद्वा वनाढे:: ति। अथ 'जायमानो वै ब्राह्मणस्त्रिभिः ऋणवा जायते 'ब्रह्मचर्यण ऋषिभ्यो यशेन देवेभ्यः प्रजया पितृभ्यः' इति श्रुतम् । ऋणानि त्रीण्यपाछत्य मनो मोक्षे निवेशयेत् । ..