पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८४१ तथाधयो मनःपीडाः, व्याधयश्च ज्वरातीसाराद्याः शारीराः, क्लेशाः अविद्यास्मितारागद्वषाभिनिवेशाः पञ्च, जरा वलीपलिनाधभिभवः, रूपविपर्ययः खञ्जकुब्जत्वादिना प्राक्तनस्य रूपस्यान्यथाभावः, तथा श्वसूकरखरोरगाद्यनेकजातिषु भव उत्पत्तिः । तथा इष्टस्याप्राप्तिः अनिष्टस्य प्राप्तिरित्यादिवहुतरक्लेशावहं संसारखरूपं .पर्यालोच्य तत्परिहारार्थमात्मज्ञानोपायंभूतेन्द्रियजये प्रयतेत ॥ ६३॥ . (वी. मि०) वैराग्योत्पत्त्यनन्तरकृत्यमाह- । . ध्यानयोगेन संदृश्यः(१) सूक्ष्म आत्मात्मनि स्थितः ॥ ६४॥ ध्यानं बहिर्विषयोपरमस्तद्विशिष्टेन योगेन चित्तवृत्तेरात्मैका. अत्वरूपेण निदिध्यासनापरनामकेनात्मनि परब्रह्मणि स्थितोऽभेदेन समुद्रतरङ्गवत् सूक्ष्म अविद्याग्रस्तानामश्य आत्मा सन्दृश्यो विषयीकर्तव्यः । अथवा ध्यानयोगेन हेतुना स्वजन्मसाक्षात्कारवि. 'षयीकर्तव्य इत्यर्थः ॥ ६४॥ (मिता० ) एवमवेक्ष्यानन्तरं किं कार्यमित्यत आह:- ध्यानयोगेनेति । योगश्चित्तवृत्तिनिरोधः आत्मैकाग्रता ध्यान त- स्या एव वाह्यविषयत्वोपरमः ध्यानयोगेन निदिध्यासनापरपर्यायेण सूक्ष्मः शरीरप्राणांदिव्यतिरिक्तः क्षेत्र आत्मा आत्मनि ब्रह्मण्यव. स्थितः इत्येवं तत्त्वंपदार्थयोरभेदं सम्यक् पश्येदपरोक्षीकुर्यात् । अत एव श्रुतौ यात्मा वारे द्रष्टव्यः' इति साक्षात्काररूपं दर्शनमनूद्य तत्लाधनत्वेन 'श्रीतव्यो मन्तव्यो निदिध्यासितव्यः' इति श्रवणम. नननिदिध्यासनानि विहितानि ॥ ६४ ॥ (वी० मि०) ननु मोक्षपदेन चतुर्थाश्रमापादनात् संन्यासस्य मोक्षहेतोः सत्वे मोक्षस्य च स्वभावित्वात् किमिति ध्यानयोगादिकं प्रवृत्तिनिवृत्तिलक्षणमित्याह- नाश्रमः कारणं धर्मे क्रियमाणो भवेद्धि सः ।। अतो यदात्मनोऽपथ्यं (२)परस्य न तंदाचरेत् ॥ ६५ ॥ सत्यमस्तेयमक्रोधो ही शौचं धीतिर्दमः॥ : . संयतेन्द्रियता विद्या धर्मः सर्व उदाहृतः ॥ ६६ ॥ (१) सम्पश्येत्-इति मु० पु० पाठः। . (२) रेषा-इति मुं० पु० पाठः । -