पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४२ ' याज्ञवल्क्यस्मृतिः। . [ प्रायश्चित्ताध्याया। . . आश्रमः संन्यासाश्रमः केवलं स्वरूपत एवं मोक्षसाधने धर्मे न कारणं यतस्तदाश्रमवता क्रियमाणः सत्यादिधर्मो मोक्षे साधनं भवेत् । अतस्ताहशधर्मस्याऽपेक्षितत्वादात्मनोऽपथ्यं दुःखकारणं परुषभापणताडनादि तत्परस्य नाचरेत् । . अत एव सत्यादिः सर्वो धर्मः कर्तव्यत्वेन मुनिभिरुदाहृतः कथितः । सत्यं मोक्षसाध. नीभूतशास्त्रजन्यतत्त्वज्ञानं, धृतिरिटवियोगानिष्टप्राप्तो चित्तस्याच पलत्वं, मनोनिग्रहो दम, इन्द्रियपदं वाद्येन्द्रियपरम् , विद्या आ त्ममनननिदिध्यासनरूपा,शेपं प्रसिद्धम् । मिताक्षरायां तु आथमो दण्ड. कमण्डल्वादिधारणं नात्मोपासनाख्ये धर्मे कारणं यस्मादसौ कि- यमाणो भवेदेव नातिदुष्कर इति व्याख्यातम ॥ ६५-६६ ॥ सामान्य . । (मिता० ) किञ्च- नेति । प्राक्तनश्लोकोक्तामोपासनाख्ये धर्मे नाश्रमो दण्डकम- ण्डल्वादिधारणं कारणम् । यस्मादसौ क्रियमाणो भवेदेव नाति- दुष्करः तस्माद्यदात्मनोऽपथ्यमुद्वेगकरं परुषभाषणादि तत्परपां न समाचरेत् । अनेन शानोत्पत्तिहेतुभूतान्तस्करणशुद्ध्यापादनत्वेनान्त. रङ्गत्वाद्रागद्वेषप्रहाणस्य प्रधानत्वेन प्रशंसार्थमाश्रमनिराकरणं, न पुनस्तत्परित्यागाय तस्यापि विहितत्वात् । तदुक्तं मनुना (६६६)- पितोऽपि चरेद्धर्म यत्र तत्राश्रमे वसन्। समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ इति ।। ६५ ॥ (मिता० ) फिञ्च-. सत्यमिति । सत्यं यथार्थप्रियवचनम् । अस्तेयं परद्रव्यानप:- हारः । अक्रोधोऽपकारिण्यपि क्रोधस्यानुत्पादनम् । हलिजा। शौ. चमाहारादिशुद्धिः । धीहिताहितविवेकः । धृतिरिटवियोगेऽनिष्ट. प्राप्तौ प्रचलितचित्तस्य यथापूर्वमवस्थापनम् । दमो मदत्यागः। संयतेन्द्रियता अप्रतिषिद्धेष्वपि विपयेष्वनतिसः । विद्या आत्म- शानम् । एतैः सत्यादिभिरनुष्ठितः सर्वो धर्मोऽनुष्ठितो भवति । अनेन दण्डकमण्डल्वाधिारणवाद्यलक्षणांत सत्यादीनामात्मगुणा:. नामन्तरङ्गतां द्योतयति ।। ६६ ॥