पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ४४३ ... (.वी० मि०:) 'सूक्ष्म आत्मात्मनि स्थितः' इत्युक्तं, तच्चाधारा. धेयभावस्य भेदनियतत्वादत आह.... . . निस्सरन्ति यथा. लोहपिण्डात्तप्तात्स्फुलिङ्गकाः ॥ . - सकाशादात्मनस्तद्वदात्मानः प्रभवन्ति हि ॥ ६७ ॥ ... (वी० मि०) तप्ताल्लोहपिण्डाद्यथा महाग्नेः स्फुलिङ्गका निस्स: रन्ति निर्गच्छन्ति तद्वत्परमात्मनः सकाशाजीवात्मानः प्रभवन्ति। अयमाशयः-स्फुलिङ्गस्याऽग्निमवाभावेऽप्यनेः स्फुलिङ्गानेदमादा: यैव जन्यंजनकभावस्तथा जीवात्मनां परमात्मभिन्नत्वाभावेऽपि प. रमात्मनो जीवात्मभ्यो भेदमादाय जन्यजनकभाव उपपद्यत एव.. जन्यत्वं चाऽऽविर्भावमात्रम् । स्फुलिङ्गजीवात्मनोः पूर्वसिद्धत्वादि ति भावः ॥ ६७ ॥ ... (मिता०) ननु ध्यानयोगेनात्मनि स्थितमात्मानं पश्येदित्युक्तं जीवपरमात्मनोभैदाभावादित्यत आह -.., . . : . ___ निःसरन्तीति । यद्यपि जीवपरमात्मनोः पारमार्थिको भेदो नास्ति तथाप्यात्मनः साकाशादविद्योपाधिभेदभिन्नतया जीवात्मनः प्रभवन्ति, हि यस्मात् तस्मायुज्यत एव जीवपरमात्मनोभ॑दव्यप- देशः। यथा हि तप्ताल्लोहपिण्डादयोगोलकाद्विस्फुलिङ्गकास्तेजोवयवा निःसरन्ति निःसृताश्च स्फुलिङ्गव्यपदेशं लभन्ते तद्वत् । अत उपप. 'नम्-आत्मात्मनि स्थितो द्रष्टव्य इति । यद्वायमर्थः-ननु सुषुप्ति समये प्रलये च सकलक्षेत्रज्ञानां ब्रह्मणि प्रलीनत्वात्कस्यायमात्मोपा. सनाविधिरित्यत आह-निःसरन्तीत्यादि । यद्यपि सूक्ष्मरूपेण-प्रल यवेलायां प्रलीनास्तथाप्यात्मनः सकाशादविद्योपाधिभेदभिन्नतया जीवात्मानः प्रभवन्ति, पुनः कर्मवशात्स्थूलशरीराभिमानिनो जा: यन्ते तस्मानोपासनाविधिविरोध तेजलस्य पृथग्भावसाम्यालोह- पिण्डदृष्टान्तः ॥ ६७ ॥ (वी० मि.). 'सूक्ष्म आत्मात्मनी ति:प्रागुक्त हेतुत्वमेतच्छ्लो . कार्यस्याऽभिप्रेति । 'भवो जातिसहस्रे स्वित्युक्त, पुनःपुनर्जन्मनि किं मानमित्यांशङ्कायामाह- . तत्रात्मा हि स्वयं किञ्चित्कर्म किश्चित्स्वभावतः ॥