पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। . ८४७ (वी०मि०) स्त्रीपुरुषयोः ऋतुकालीने संयोगे मैथुने 'परस्परमिः लिते.शुक्रशोणिते विशुद्ध वाद्यनभिभूते पञ्चधातून शरीरधारकान् पृथिव्यादीनि महाभूतानि पष्ठश्चिदात्मको धातुः प्रभुः परमात्मा स्वयमेव न त्वन्यप्रेरणया युगपदादत्ते शरीरारम्भाय मिश्रयति । तुशब्देन मैथुनव्यतिरेकेण शुक्रशोणितयोमिलनं व्यवच्छिनत्ति ॥७२॥ (मिता० ) ततः किमित्यत आह-- स्त्रीपुंसयोरिति । ऋतुवेलायां स्त्रीपुंलयोर्योगे शुक्रं च शोणितं च शुक्रशोणितं तस्मिन्परस्परसंयुक्त विशुद्ध 'वातपित्तश्लेष्मदुष्टन. स्थिपूयक्षीणमूत्रपुरीषगन्धरेतांस्यबीजानि' इति स्मृत्यन्तरोक्तदोष- रहिते स्थित्वा पञ्चधातून पृथिव्यादिपञ्चमहाभूतानि शरीराम्भक- तया स्वयं पष्ठश्चिद्धातुरात्मा प्रभुः शरीरारम्भ(१)करणेऽष्टकर्म- योगितया समर्थो युगपदादत्ते भोगायतनत्वेन स्वीकरोति । तथा च शारीरके--'स्त्रीपुंसयोः संयोगे योनी रजसामिसंसृष्टं शुक्र तत्क्ष. णमेव सह भूतात्मना गुणैश्च सत्त्वरजस्तमोभिः सह वायुना प्रेर्यमाणं गर्भाशये तिष्ठति' इति ॥ ७२ ॥. इन्द्रियाणि मनः प्राणो ज्ञानमायुः सुखं धृतिः ॥ धारणा प्रेरणं दुःखमिच्छाऽहकार एव च ॥ ७३ ।। प्रयत्न आकृतिवर्णः स्वरद्वषो भवाभवौ ॥ तस्यैतदात्मजं सर्वमनादेरादिमिच्छतः ॥ ७४ ॥ . (वी०मि०) इन्द्रियाणि चक्षुरादीनि पञ्च प्राणादीनि च पञ्च मन:- प्राणौ ज्ञानसुखदुःखच्छाद्वेषप्रयत्नाः आयुशतवर्षाद्यवच्छिन्नजीवन धृतिश्चित्तस्थैर्य धारणा मेधा प्रेरणमिन्द्रियाणां स्वविपये प्रवर्तनम् अहङ्कारोऽभिमानः आकृतिरषयवसंनिवेशः वर्णो गौरत्वादिः. स्वरों गान्धारादिः भवः पुत्रधनादिसम्पदुत्पत्तिः, तद्विपर्ययोऽभवः । एत- सर्वमादिशरीरसम्बन्धमिच्छतोऽनादेरात्मनो जीवात्मन आत्मजमे. वात्मीयप्राक्तनादेव प्रभवमेव निष्पद्यते । चकारेण धर्मशौर्यादिस- अहः ॥ ७३-७४ ॥ (१) रम्भकारणादृष्ट ।