पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयामिताक्षरासहिता। ८४९ पुनर्गर्भ पुनर्धात्रीमोजस्तस्य प्रधावति ॥ . अष्टमे मास्यतो गर्भो जातः प्राणैर्वियुज्यते ॥ ८२॥ नवमे दशमे (१)मासि प्रबलैः सूतिमारुतैः ।। निस्सार्यते वाण इच (२)जन्तुश्छिद्रेण सज्वरः ॥४शा (वी०मि०) गर्भः प्रथमे मासि. धातुषु पृथिव्यादिषु मूर्छितः क्षी. रनीरखदेकतापन्नः सक्लेदभूतो द्रवदशापन्न (३)एव तिष्ठति । द्विती. ये सास्यर्बुदमीषत्कठिनमांसपिण्डात्मको भवति । तृतीये मासि अझैः करादिभिरिन्द्रियैश्चक्षुरादिभिर्युतो भवति आत्मा च । तृतीये मासि आकाशादिभ्यः पञ्चभ्यो लाघवादिकं सर्व गृह्णाति गर्भान्तःप्रविष्टः सन् गर्भद्वारा स्वसम्बन्धीकरोति । ततस्तदनन्तरं चतुर्थे मासि स्पन्दते गर्भः । तथा च शारीरकम-'चतुर्थे मासि चलनादावभिप्राय करोती'ति । पारस्करोऽपि--'पुंसवनं स्पन्दनात्पुरा द्वितीये तृतीये वा कर्तव्यमिति । लाघवं लग्नोपयोगिनं लघिमानं सौक्षम्यं वस्त्वन्तर. मध्यप्रवेशम् । आदिग्रहणाच्छिद्रसमूहम्-उपनिषत्संवादात् । स्पर्श नास्वगिन्द्रियं, व्यूहनमङ्गानां विविधं प्रसारणं, रौक्ष्यं कर्कशत्वं, चका. रात्स्पर्श च । तुशब्देन भूतान्तरस्यापादानत्वं व्यवच्छिन्नम् । एव. मनेऽपि। एवकारेण तिर्यग्गमनादिस्वभावत्वव्यवच्छेदः । पित्तात्तेजसः कार्यकारणयोरभेदोपचारः दर्शनं चक्षुः, पक्ति भुक्तानपरिपाकम्, औष्ण्यम् उष्णस्पर्शत्वं, प्रकाशिनां दीपमानता, रसाज्जलात्स्नेह स्निग्धता, क्लेदं द्रवत्वसम्बन्धः, मार्दवं सुकुमारस्पर्शः तत्सहितं, गौरवं गुरुत्वसम्बन्ध, मूर्तिः काठिन्यं, चकारेण श्यामरूपादेः सङ्ग्रहः । एवकारेण. तृतीये इत्यत्राऽन्वितेन कालान्तरव्यवच्छेदः ।. तृतीयमा. समारभ्य गर्भिणीमधिकृत्य तत्पतिकर्तव्यं प्रसङ्गादाह दोहदस्यति । गर्मिण्या वद्वांछितस्याऽर्थस्य मिष्टभोजनश्रमाभावादेरप्रदानेन गर्भो. दोषं वैरूप्यात्मकं मरणादिकं वाऽवाप्नोति । तस्मादर्भिण्या स्त्रियाः प्रियं वाञ्छितं सम्पादनीयमित्यर्थः । अपिकारेण वीर्यहीनत्वसङ्कहः। दौहादस्येति पाठे गर्भहृदयेनात्महदयेन च द्विहृदयाया. गर्भिण्या अ. भीष्टस्येत्यर्थः। निपातनादौंकारादिति । तथा च श्रुतिः-'द्विहृदयां . (१) वापिइति मु० पु० पाठः। (२) यन्त्रच्छि०-इति मु० पु० पाठः। (३)च-इति ख० पु० पाठ। ९६