पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आशौचप्रकरणम् ।] वीरमित्रोदयमिताक्षरासहिता। ४०५, ऋत्विजा दीक्षितानां च यज्ञियं कर्म कुर्वताम् ॥ सत्रिवतिब्रह्मचारिदातृब्रह्मविदां तथा ॥ २८ ॥ दाने विवाहे यज्ञे च सङ्ग्रामे देशविप्लवे ॥ आपद्यपि च(१) कष्टायां संद्यः शौच विधीयते ॥ २९ ।। महीपतीनामाभिषिक्तक्षत्रियाणां रोषादिना विद्युदभिमुखगमने विद्युद्धतानां गो(२)ब्राह्मणार्थे सङ्ग्रामेऽन्यरोषादात्मघातार्थिनां हतानां यस्याऽशौचाभावमिच्छति राजा तस्य सम्बन्ध्यशौचं न भवति । अनाऽऽधन्त्ययोराश्रयत्वं मध्यमानांसमतत्त्वं सम्बन्धी व्यवच्छिद्यते। अयं चाऽशौचाभाव आद्यन्तयोः, ऋत्विगादीनां च कर्मविशेष एव । तदाह:विष्णु:-'नाऽसौ राज्ञां राजकर्मणि न वतिनां व्रते न सत्रिणा सत्रे न कारूणां स्वकर्मणि न राज्ञामाज्ञाकारिणां न देवप्रतिष्ठाविवा. हयोः सम्भृतयो'शेषव्यतिरेकेण विद्यद्धतादित्रयस्य चाऽशौचं स. द्यः शौचरूपं प्रागभिहितम् । ऋत्विजां वृताना, दीक्षितानां दीक्षणीये. ष्टिसंस्कृतानांच यशसम्वन्धिकमकरणारम्भविशिष्टानां तथाऽन्नलत्र. दानप्रवृत्तानामारब्धचान्द्रायणादिवतानां ब्रह्मचारिणां, प्रत्यहं गवा- दिदानशीलानां ब्रह्मविदां यतीनां, तथा पूर्वसङ्कल्पितद्रव्यस्य दाने, विवाहे प्रक्रान्ते, यज्ञे वृषोत्सर्गदेवप्रतिष्ठादी दीक्षणीयेष्टिपूर्व सोमः यागादौ च प्रकान्ते,सङ्ग्रामे आरब्धे, परचक्रादिना देशोपप्लवे, कष्टा. यामापदि मारकोपसर्गादिपीडायामावश्यकतत्कर्मसु सद्य एव अशौचाभावो विधीयते मन्वादिभिः ॥ २७-२९ ॥ (मिता०) सपिण्डाशीचे क्वचिदपवादमाह- महीपतीनामिति । यद्यपि महाशब्देन कृत्स्नं भूगोलकमभिधी. यते तथाप्यत्र सकलायाः क्षितरेकभर्तृकत्वानुपपत्तेः महीपतीना. मिति बहुवचनानुरोधाश्च तदेकदेशभूतानि मण्डलानि लक्ष्यन्ते । तत्पालनाधिकृतानां क्षत्रियादीनामभिषिक्तानां नाशौचम् , तैरा. शौचं ने कार्यमित्यर्थः । तथा विद्युद्धतानां गोब्राह्मणरक्षणार्थ विप. नानां च सम्बन्धिनो ये सपिण्डास्तरप्याशौचं न कार्यम् । यस्य च मन्त्रिपुरोहितादेर्भूमिपोऽनन्यसाध्यमन्त्राभिचारादिकर्मसिध्यर्थमाशो. (१) हि-इति मु० पु० पाठः। :. : . . (२) गोब्राह्मण-इत्यारभ्य हताना-इत्तीयानशी नास्ति ख. पुस्तके।