पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८५५ पुरुषस्य मनुष्यस्याऽस्थिपरिगणनम् । वैशब्दः पादपूरणे । अन्ये द्वादशाऽव्ययशव्दाः षड्भिः श्लोकैः प्रत्येकमुक्तानां सङ्ख्यानां न्यूना. धिकत्वयोर्व्यवच्छेदाय ॥ ८५-९० ॥ (मिता०) किञ्च- स्थालैरिति।स्थालानि दन्तमूलप्रदेशस्थान्यस्थीनिद्वात्रिंशत्तैः सह द्वात्रिंशद्दन्ताश्चतुःषष्टिर्भवन्ति । नखाः करचरणरुहा विशतिहस्तपा. दस्थानि शलाकाकाराण्यस्थीनि मणिबन्धस्योपरिवर्तीनि अङ्गुलिमू लस्थानि विशतिरेव । तेषां नखानां शलाकास्थनां च स्थानचतुष्टयं द्वौ चरणौ करो चेत्येवमस्मां चतुरुत्तरं शतम् ॥ ८५ ॥ (मिता०) किञ्च-, __ षष्टीति । विशतिरङ्गलयस्तासामेकैकस्यास्त्रीणि त्रीणीत्येवमः गुलिसंबन्धीन्यस्थीनि षष्टिर्भवन्ति । पादयोः पश्चिमी भागौ पार्णी तयोरस्थीनि, द्वे एकैकस्मिन्पादे गुल्फो द्वावित्येवं चतुर्घ गुल्फेषु च. स्वार्यस्थीनि, बाह्वोररतिप्रमाणानि चत्वार्यस्थीनि, जयोस्तावदेव चत्वार्यवेत्येवं चतुःसप्ततिः ॥ ८६ ॥ (मिता० ) किञ्च- द्वद्वे इति । जडोरुसन्धिर्जानुः, कपोलो गल्लः, ऊरुः सक्थि तत्फ- लकम्, अंसो भुजशिरः, अक्षः कर्णनेत्रयोर्मध्ये शङ्खनदधोभागः, ता. लूषकं काकुदं, श्रोणी ककुद्मती तत्फलक, तेषामेकैकस्यास्थीनि द्वेढे विनिर्दिशेदित्येवं चतुर्दशास्थीनि भवन्ति ॥ ८७ ॥ (मिता० ) किञ्च- भगास्थीति । गुह्यास्थ्येक पृष्ट पश्चिमभागे पञ्चचत्वारिंशद. स्थीनि भवन्ति । ग्रीवा कंधरा सा पञ्चदशाथीं स्यात् भवेत् । वक्षोसयोः सन्धिर्जत्रु प्रतिजत्रु एकैकम्, हनुश्चिबुकं तत्राप्येकम- स्थीत्येवं चतुःषष्टिः ॥ ८८ ॥ (मिता०) किञ्च- तन्मूल इति । तस्य हनोर्मूलेऽस्थिनी द्वे । ललाटं भालम्, अक्षि चक्षुः, गण्डः, कपोलाक्षयोर्मध्यप्रदेशः तेषां समाहारो ललाटाक्षिग. ण्डं तत्र प्रत्येकमस्थियुगुलम् । नासा घनसंज्ञकास्थिमती। पार्श्वकाः कक्षाध-प्रदेशसंवद्धान्यस्थीनि तदाधारभूतानि स्थालकानि तैः स्था.