पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५६ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः । लकैः अर्बुदैश्वास्थिविशेपैः सह पाचकाः द्विसप्ततिः। पूर्वोक्तश्च न. वभिः सार्धमेकाशीतिर्भवन्ति ॥ ८९ ॥ (मिता०) किञ्च- द्वाविति । भ्रकर्णयोर्मध्यप्रदेशावस्थिविशेषी शाहको । शिरसः सबन्धीनि चत्वारि कपालानि । उरो वक्षस्तत्सप्तदशास्थिकमित्येवं त्रयोविंशतिः । पूर्वोक्तश्च सह पश्यधिक शतत्रयमित्येचं पुरुपस्या. स्थिसंग्रहः कथितः ॥ १० ॥ गन्धरूपरसस्पर्शशब्दाश्च विषयाः स्मृताः ॥ नासिका लोचने जिहा त्वक् श्रोत्रं चेन्द्रियाणि च ॥ ९ ॥ . (वी० मि० ) नासिकादीनि शानेन्द्रियाणि शरीरान्तर्भूतानि तेषां च यथासङ्ख्यं गन्धादयो विपया विशेषेण सिनोति पुरुपान् वध्नातीति व्युत्पत्त्या दि संसूचितम् । एवमग्रिमरलोकेऽपि ॥९१॥ (मिता०) सविपयाणि पानेन्द्रियाण्याह- गन्धेति । पतं गन्धादयो विषयाः पुरुपस्य बन्धनहेतवः । 'विष. यशब्दस्य 'पिञ् बन्धने' इत्यस्य धातोन्युत्पन्नत्वात् । एतैश्च गन्धादि- भिर्वाध्यत्वेन व्यवस्थितः स्वस्वगोचरसंचिसाधनतयानुमेयानि घ्राणादीनि पञ्चेन्द्रियाणि भवन्ति ॥ ९१ ॥ हस्तौ पायुरुपस्थं च मु(:)ख पादौ च पञ्च ३ ॥ कर्मेन्द्रियाणि जानीयान्मनश्चैवोभयात्मकम् ॥ ९२ ।। (ची० मि० ) पायुगुंदम् , उपस्थं मैथुनसाधनं वराकम् , अ. न्यानि प्रसिद्धानि । कर्मेन्द्रियाणि आदाननिर्हारानन्दव्यवहारसंव. रणात्मकर्मपञ्चकसम्पादकानीन्द्रियाणि मनश्च उभयात्मकं शाने. न्द्रियकर्मेन्द्रियात्मकं ज्ञानं कर्मणि जनकत्वादिन्द्रियत्वाच्च । एव: कारणाऽन्येपामुभयात्मकत्वव्यवच्छेदः। वैशब्दः पादपूरणे ॥१२॥ (मिता० ) कर्मेन्द्रियाणि दर्शयितुमाह- हस्ताविति । हस्तौ प्रसिद्धी, पायुगुदम् , उपस्थं रतिसंपांद्यसुख साधनं, जिह्या प्रसिद्धा, पादौ च एतानि हस्तादीनि पञ्च कर्मेन्द्रि- याणि आदाननिहारानन्दव्याहारविहारादिकर्मसाधनानि जानी- (१) जिव्हा-इति मु० पु० पाठः । - - -