पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८५७ यात् । मनोऽन्तःकरणं युगपत् ज्ञानानुत्पत्तिगम्यं तच्च बुद्धिकम न्द्रियसहकारितयोभयात्मकम् ॥ ९२ ॥ नाभिरोजो गुदं शुक्रं शोणितं शङ्खको तथा ॥ मू सकण्ठहृद(१)यं माणस्यायतनानि च ।। ९३ ॥ (वी० मि० ) नाभ्यादीनि दश प्राणस्य दशविधस्याऽसाधार- णान्यायतनानि आधारभूतानि । ओजश्चक्षु(२)वर्ति, शङ्खको व्याख्या. तौ। तथाशब्देन वक्ष्यमाणवपादिसमुच्चयः। चशब्देन सामान्यत (३)आयतनत्वं तेषां समुच्चीयते । शेषं सुगमम् ॥१३॥ (मिता०) प्राणायतनानि दर्शयितुमाह- नाभिरिति । नाभिप्रभृतीनि दश प्राणस्य स्थानानि । समान- नाम्नः पवनस्य सकलाङ्गचारित्वेऽपि नाभ्यादिस्थानविशेषवाचो. युक्तिः प्राचुर्याभि(४)प्राया ॥९३ ॥ (वी० मि०) असाधारण्येन प्राणस्यायतनान्युक्तानि, सामान्यत- स्तदायतनानि साधारणानि च स्फुटयति- वपा वसाऽवहननं नाभिः क्लोम यकृत् प्लिहा ॥ . क्षुद्रान्वं वृक्कको वस्तिः पुरीषाधानमेव च ॥ ९४ ॥ आमाशयोऽथ हृदयं स्थूलान्त्रं गुद एव च ।। उदरं च गुदौ कोष्ट्यो विस्तारोऽयमुदाहृतः ॥ ९५॥ कनीनिके चाऽक्षिकूटे शष्कुली कर्णपत्रको । क! (५) शङ्खौ भ्रुवौ दन्तवेष्टावोष्ठौ ककुन्दरे ।। ९६ ॥ वङ्क्षणौ वृषणो को श्लेष्मसङ्घातजौ स्तनौ ॥ उपजिहा स्फिजौं वाहू जङ्घोरुषु च पिण्डिका ॥ ९७ ॥ तालूदरं वस्तिशीर्ष चिबुके गलशुण्डिके । अवटश्चैवमेतानि स्थानान्यत्र शरीरके ।। ९८ ।। . (१) मूर्धासहृदयं कण्ठः इति क.पु०पाठः।। । (.२ ) चक्षुर्वर्ण-इति ख० पु० पाठः । . (३) सामान्यतया अदनत्वं तेषां - इति ख० पु० पाठः । (५) भिप्रायेण । (५) गण्डौ शाः-इति कः पु. पाठः।