पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८५९ अवहननं फुप्फुसः, प्लीहा आयुर्वेदप्रसिद्धा, तो च मांसपिण्डाकारी स्तः सव्यकुक्षिगतौ । यकृत् कालिका, (१)क्लोम मांसपिण्ड तोच दक्षिणकुक्षिगतो, क्षुद्रान्त्रं हृत्स्थान्त्रम, वृक्तको हृदयसमीपस्थौ मांसपिण्डौ, वस्तिर्मूत्राशयः, पुरीषाधानं पुरीषाशयः, आमाशयो- ऽपक्कान्नस्थानम् , हृदयं हृत्पुण्डरीकम्, स्थूलान्त्रगुदोदराणि प्रसि द्धानि, वाह्याद् गुदवलयादन्तर्गुदवलये द्वे, तौ च गुदो काष्ठ्यौ कोष्ठ नाभेरधःप्रदेशे भवौ । अयं च प्राणायतनस्य विस्तार उक्तः । पूर्व: श्लोके तुसंक्षेपः । अत एव पूर्वश्लोकोक्तानां केषांचिदिह पाठः ॥९४-९५॥ (मिता० ) पुनः प्राणायतनप्रपञ्चार्थमाह- कनीनिके इत्यादि । कनीनिके अक्षितारके, अक्षिकूटे अक्षिनांसि. कयोः सन्धी, शकुली कर्णशकुली, कर्णपत्रको कर्णपाल्यो, कर्णी प्रसिद्धौ, दन्तवेष्टौ दन्तपाल्यौ, ओष्ठौ प्रसिद्धौ, ककुन्दरे जघनकू. पकौ, वङ्गणो जघनोरुसंधी, वृक्को पूर्वोक्ती, स्तनौ च श्लेष्मसंघा. तजौ, उपजिह्वा घण्टिका, स्फिजौ कटिमोथौ, वाहू प्रसिद्धौ, जङ्घो- रुषु च पिण्डिका जन्योरूर्वाश्च पिण्डिका मांसलप्रदेशः, गलशु: ण्डिके हनुमूलगल्लयोः सन्धी, शीर्ष शिरः, अवटः शरीरे यः कश्चन निम्नो देशः कण्ठमूलकक्षादिः । अवटुरिति पाठे कृकाटिका । तथा. क्ष्णोः कनीनिकयोः प्रत्येकं श्वेतं पार्श्वद्वयमिति वर्णचतुष्टयम् । यद्वा अक्षिपुटचतुष्टयम् । शेष प्रसिद्धम् । एवमेतानि कुत्सिते शरीरे स्थानानि । तथाक्षियुगलं कर्णयुग्मं नालाविवरद्वयमास्यं पायुरुपस्थ. मित्येतानि पूर्वोक्तानि नव छिद्राणि च प्राणस्यायतनान्येव ॥९६-९९॥ शिराः शतानि सप्तैत्र नव स्नायुशतानि च ॥ धमनीनां शते द्वे तु पञ्च पेशीशतानि च ।। १०० ।। एकोनशिल्लक्षाणि तथा नव शतानि च ॥ पट्पश्चाशद्विजा(२)नीयाच्छिरा धमनिसंज्ञिताः ॥ १०१ ।। (वी० मि०) शिरा नाभिसम्बद्धा वातपित्तकफवाहिन्यः सक- लदेहव्यापिका नाड्यः सप्त शतानि । स्नायनामस्थिवन्धननाडीनां (१) लोमा० ख । (२) षट् पञ्चाशश्च जानीत-इति मु. पु. पाठः ।