पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः । चाभावमिच्छति तेनापि न कार्यम् । अत्र च महीपतीनां यदसाधा. रणत्वन विहितं प्रजापरिरक्षणं तद्येन दानमानसत्कारव्यवहारदर्शना: दिना विना न सम्भवति तत्रैवाशौचाभावो न पुनः पञ्चमहायज्ञा- दिष्वपि । तथा च मनुः (५।९५)-राज्ञो माहात्मिके स्थाने सद्यः शौचं विधीयते। प्रजानां परिरक्षा(१)र्थमासनं चात्र कारणम् ॥ इति । गौतमेनाप्युक्तम्-'राज्ञां च कार्याविघातार्थम्' इति राजभृ. त्यादेरप्याशौचं न भवति । यथाह प्रचेताः-'कारवः शिल्पिनों वै(२)द्या दासीदासास्तथैव च । राजानो राजभृन्याश्च सद्यः शौचाः प्रकीर्तिताः ॥ इति । कारवः सूपकारादयः। शिल्पिनश्चित्रकरचै- लनिर्णेजकादयः । अयं चाशौचाभावः किंविषय इत्यपेक्षायां कर्म- निमित्तैः शब्देस्तत्तदसाधारणस्य कर्मणो वुद्धिस्थत्वात्तत्रैव द्रष्टव्यः। अत एव विष्णुः-'न राज्ञां राजकर्मणि न व्रतिनां व्रते न सत्रिणां सत्रे न कारूणां कारुकमणि' इति प्रतिनियतविषयमेवाशीचाभावं दर्शयति । शातातपीयेऽप्युक्तम्-'मूल्यकर्मकराः शूद्राः दासी. दासास्तथैव च । स्नाने शरीरसंस्कारे गृहकर्मण्यदूपिताः ॥ इति । इयं च दासादिशुद्धिरपरिहरणीयतयाप्राप्तस्पर्शविषयेत्यनुसन्धेयम् । अत एव स्मृत्यन्तरम-सद्यः स्पृश्यो गर्भदासो भक्तदासस्यहा- छुचिः। तथा--'चिकित्सको यत्कुरते तदन्येन न शक्यते ॥ तस्माचिकित्सकः स्पर्श शुद्धो भवति नित्यशः ॥ इति ॥ २७ ॥ (मिता०) किञ्च- ऋत्विजामित्यादि। ऋत्वि(३)जो वरणसम्भृता वैतानोपासना. कर्तृविशेषाः । दीक्षणीयासंस्कृता दीक्षितास्तेषां यशियं यज्ञे भवं च कर्म कुर्वतां सद्यः शौचं विघीयत इति सर्वत्रानुपङ्गी दीक्षितस्य 'वैतानोपासना कार्या' इत्यनेन सिद्धेऽप्यधिकारे पुनर्वचनं (8)य. जमाने स्वयंकर्तृत्वविधानार्थ सद्यः (१)स्नानेन विशुद्यर्थ च । सत्रिग्रहणेन सन्ततानुष्ठानतुल्यतयानसत्रप्रवृत्ता लक्ष्यन्ते । मुख्यानां तु सत्रिणां दीक्षितग्रहणेनैव सिद्धेः। व्रतिशब्देन कृच्छ्रचान्द्रायणा. दिप्रवृत्ताः स्नातकवतप्रायश्चित्तप्रवृत्ताश्चोच्यन्ते । तथा ब्रह्मचारि.. (१) रक्षार्थ शायनं ग.। (२) भृत्या वैद्या दासास्तथैव च घ.। (३) परणकरणसङ्गता ग. परणाभरणसम्भूता का (५) याजमानपु ख.। (५) लानविध्यर्थं म. स्नानविशुध्यर्थं ग.। .