पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयामिताक्षरासहिता। ८६१ शेयाः। पुस्त्वं छान्दसम् । मर्माणि अल्पाभिघातेऽप्यतिपीडाकराणि, स्थानानि वस्त्यादीनि लप्तकशतसंख्यानि। अस्मां सन्धिशते द्वे । श्म. झुकेशव्यतिरिक्तानां रोम्णां सार्द्धकोटित्रयमितानां परमाणवो वाय- वीयैः परमाणुभिर्विभक्ताः पृथक्कृताः स्वसमसंख्यैः स्वेदनिर्गममा. गैः सह चतुःपञ्चाशत् कोट्यः सार्द्धषष्टिलक्षाश्चानुमानेन वि: गण्यन्ते । यद्यकोऽपि एषां शिष्याणां. मध्ये भावानामस्थिरोमादीनां संस्थिति मर्यादां वेदेत्यौक्तिः, तदा स दिव्यदृष्टिरिति वक्तव्यशे- षस्य याज्ञवल्क्येऽतीन्द्रियार्थदर्शनाय ध्यानासङ्गादनभिधानमित्याभा. ति । नु वितर्के । यद्वा तदा कृत्यसावित्यग्रेतनमनुषञ्जनीयम्। अथवा यद्यप्यन्यैरनुमानेनैव भुवि गण्यन्ते तथाप्येषां मध्ये एकोऽहं भावा. नां संस्थितिं प्रत्यक्षेण वेदेत्यर्थः । श्लोकद्वयस्थैस्तुकारचकारेश्चतुर्भि- श्चतुषु वाक्यार्थेषूनसंख्याव्यवच्छेदः । तथाशब्दाभ्यां विज्ञयं विज्ञेये इत्यर्थद्वयमनुष्यते। तृतीयश्लोकस्थचकारण शरीरसृष्टिक्रम- समुच्चयः । एवकारस्त्वेषामित्यत्र एक इत्यत्र वाऽन्वितः॥१०२-१०४॥ (मिता० ) किंच- त्रय इति । शरीरिणां श्मशूणि केशाश्च मिलिताः सन्तस्त्रयो लक्षा विज्ञेयाः। मर्माणि मरणकराणि क्लेशकराणि च स्थानानि तेषां सप्तोत्तरं शतं ज्ञेयम् । अस्थनां तु द्वे सन्धिशते । स्नायुशिरादिस.' न्धयः पुनरनन्तोः ॥ १०२ ॥ (मिता०) सकलशरीरसुषिरादिसंख्यामाह- रोम्णामित्यादि । पूर्वोदितशिराकेशादिसहितानां रोम्णां पर माणवः सूक्ष्मसूक्ष्मतररूपा भागाः स्वेदम्रवणसुपिरैः सह चतुःपञ्चा. शत्कोट्यः, तथा सप्तोत्तरषष्टिलक्षाः सार्धाः पञ्चाशत्सहस्रसहिताः वायवीयैर्विभक्ताः पवनपरमाणुभिः पृथकृता विगण्यन्ते । एतच्च शास्त्रहष्ट्याऽभिहितम् । चक्षुरादिकरणपथगोचरत्वाभावादस्यार्थस्य, इममतिगहनमर्थ शिरादिभावसंस्थानरूपं हे मुनयः ! भवतां मध्ये यः कश्चिदनुवेत्ति सोपि महान् अग्न्यो बुद्धिमताम् । अतो यत्नतो बुद्धिमता वोद्धव्या भावसंस्थितिः ॥ १०३-१०४॥ रसस्य नव विज्ञेया जलस्याजलयो दश ॥ . सप्तैव तु पुरीषस्य रक्तस्याष्टौ प्रकीर्तिताः ॥१०५ ॥ ९७॥