पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६२ याज्ञवल्क्यस्मृतिः। [ प्रायश्चित्ताध्यायः । पट् श्लेष्मा पञ्च पित्तं च चत्वारो मूवमेव च ॥ वसा त्रयो द्वौ तु मेदो मज्जैकोज़ तु मस्तके ॥ १०६ ।। श्लेष्मौजसस्तावदेव रेतसस्तावदेव तु ।। इत्येतदस्थिरं वमं यस्य मोक्षाय कृत्यसौ ॥ १०७ ॥ (वी० मि०) स्वस्थस्य रसादीनामुक्तसंख्या अझलयः शरी- रे प्रकीर्तिताः। सम्यक्परिणताहारो रसः तस्य नवाऽलयः। एक्मप्रेऽपि वसा मांसस्नेहः, मेदो मांसरसः, मजास्थि, सुषिरगत एकोऽजलिमस्तके च मजा अलिामतः, श्लेष्मौजसः संप्मलारस्य तावदेव अअल्यर्द्धमेव । द्वादशभिरव्ययेद्वादशसु वस्तुपु न्यूनाधिक. संख्याऽसलिगना व्यवच्छिद्यते । पतत्सर्व जानतो मोक्षसाधनं वैरा- ग्यमुत्पद्यत इत्याशयवानाह इतीति । इति नश्वरकथितवस्तुसमुदाय- निमित्तत्वादेतवर्म शरीरमस्थिरम्, तच्चाऽस्थिरत्वेनाऽसारत्वेन दुःखमयत्वेन च ज्ञातं योगाभ्यासमुखेन मोक्षाय यस्य पुंसो भवति, असौ कृती पुण्यवान् ॥ १०५-१०७ ॥ (मिता०) शारीररसादिपरिमाणमाह- ___ रसस्येत्यादि । सम्यक्परिणताहारस्य सारी रसस्तस्य परिमाणं नवालयः । पार्थिवपरमाणुसंश्लेपनिमित्तस्य जलस्याललयो दश विज्ञेयाः। पुरीपस्य वर्चस्कस्य सप्तैव । रक्तस्य जाठरानलपरिपाका. पादितलौहित्यस्यानरसस्याटावालयः प्रकीर्तिताः । श्लेष्मणः कफ. स्य पडअलयः। पित्तस्य तेजसः पञ्च । मुत्रस्योचारस्थ चत्वारः। वसाया मांसस्नेहस्य त्रयः। मंदसो मांसरसस्य द्वावञ्जली । मजा स्वस्थिगतसुपिरगतस्तस्यैकोऽञ्जलिः । मस्तके पुनरर्धाञ्जलिः। मजा लेप्मौजला श्लेष्मसारस्य तथा रेतसश्चरमधातोस्तावदेवाधांजलि. रेव । एतञ्च समधातुपुरुपाभिप्रायेणोक्तम् । विपमधातोस्तु न नियः मः। 'बैलक्षण्याच्छरीराणामस्थायित्वात्तथैव च। दोपधातुमलानां च परिमाणं न विद्यते' || इत्यायुर्वेदस्मरणात् । इतीदृशमस्थिस्ना- वाद्यारन्धमेतदशुचिनिधानं वांस्थिरमिति यस्य वुद्धिरसौ कृती पण्डितो मोक्षाय समर्थों भवति । वैराग्यनित्यानित्यविवेकयोर्मोक्षो. पायवात्, अस्थिमूत्रुपुरीपादिप्राचुर्यज्ञानस्य वैराग्यहेतुत्यात् । अत