पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८६३ एव व्यास:--'सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीर. कस्यापि कृते मूढाः पापानि कुर्वते ॥ यदि नामास्य कायस्य यदन्त. स्तद्वहिर्भवेत् । दण्डमादाय लोकोऽयं शुनः काकांश्च वारयेत् ॥ इति । तस्मादीशकुत्सितशरीरस्यात्यन्तिकविनिवृत्त्यर्थमात्मोपा. सने प्रयतितव्यम् ॥ १०५-१०७ ॥ (वी० मि० ) एवमुत्पन्ने वैराग्ये सत्यात्मोपासनं कर्तव्यं यः था तदाह- द्वासप्ततिसहस्राणि हृदयादभिनिःसृताः ॥ हिताहिता नाम नाड्यस्तासां मध्ये शशिप्रभम् ।। १०८॥ मण्डलं तस्य मध्यस्थ आत्मा दीप इवाऽचलः ॥ स ज्ञेयस्तं विदित्वेह पुनराजायते न तु ॥ १०९ ।। ज्ञेयं चारण्यकमहं यदादित्यादवाप्तवान् ॥ योगशास्त्रं च ममोक्तं ज्ञेयं योगमभीप्सता ॥ ११० ॥ अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् ॥ ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत् प्रभुः ॥१११॥ हृदयप्रदेशादभि सर्वतो निःसृतो देहस्य हिताहितानाम्ना पिहिता नाड्यो द्वासप्ततिसहस्राणि यास्तासां नाडीनां मध्ये श. शिप्रभं मण्डलं तस्य मध्यस्थोऽचलः स्थितो दीप इव प्रकाशमान आस्तेस आत्मा ज्ञेयः साक्षात्कर्तव्यः । अत्र फलमाह-तमात्मानं प्रत्य- क्षतो विदित्वा इह संसारे पुनर्न जायत इति । साक्षात्कारोपाय. श्रवणमाह ज्ञेयमिति । यदहमादित्याद् गुरोराप्तवानधीतवान् तदा. रण्यकं बृहदारण्यकाख्यमात्मश्रवणाय ज्ञेयम् । मननमाह- मत्प्रोक्तं च योगप्रतिपादक शास्त्रं संहितारूपं योगमात्मनि स्थैर्यमभीप्सता ज्ञेयम् । निदिध्यासनमाह अनन्येति । मनोऽन्तःकर. णं, बुद्धिं महत्तत्वं, स्मृति बुद्धिनिष्ठवृत्तिविशेषात्मिकाम् , इन्द्रियं श्रोत्रादि अनन्यविषयमात्मभिन्नविषयव्यावृत्तं कृत्वा हृदये दीपवत् स्थितो योऽसौ पूर्वमुक्तः स आत्मा ध्येयः । तुकारेणाऽऽत्मसाक्षा.