पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६४ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः । कारं विना मोक्षो व्यवच्छिन्नः । चकाराभ्यां छन्दोगोपनिपदादेयायः शास्त्रादेश्च समुच्चयः ॥ १०८-१११ ॥ (मिता० ) उपासनीयात्मस्वरूपमाह- द्वेत्यादि । हृदयप्रदेशादभिनिःसृताः कदम्बकुसुमकेसरवत्सर्वतो निर्गता हिताहितकरत्वेन हिताहितेतिसंज्ञा द्वासप्ततिसहस्राणि ना. ड्यो भवन्ति । अपरास्तिस्रो नाड्यस्तासामिडापिङ्गलाये के नाड्यो सव्यदक्षिणपार्श्वगते हृदि विपर्यस्त नासाविवरसंवद्ध प्राणापानाय. तने । सुषुम्णाख्या पुनस्तृतीया दण्डवन्मध्ये ब्रह्मरन्ध्रविनिर्गता तासां नाडीनां मध्ये मण्डलं चन्द्रप्रमं तस्मिन्नात्मा निर्वातस्थदीप इवा चलः प्रकाशमान आस्ते स एवंभूतो ज्ञातव्यः । यतस्तस्साक्षात्कर- णादिह संसारे न पुनः संसरति अमृतत्वं प्राप्नोति ॥ १०८-१०९ ॥ (मिता०) किश्च- शेयमिति। चित्तवृत्तेपियान्तरतिरस्कारेणान्मनि स्थैर्य योग- स्तत्प्राप्त्यर्थ वृहादारण्यकाण्यमादित्याद्यन्मया प्राप्तं तच ज्ञातव्यम् । तथा यन्मयोक्तं योगशास्त्रं तदपि ज्ञातव्यम् ॥ ११०॥ (मिता० ) कथं पुनरसापात्मा ध्येय इत्यत आह- अनन्यविषयमिति । आत्मव्यतिरिक्तविषयेभ्यो मनोवुद्धिस्मृती. न्द्रियाणि प्रत्याहत्य आत्मैकविपयाणि कृत्वा आत्मा ध्येयः। योऽसौ प्रभुनिर्वातस्थप्रदीपवहीप्यमानो निष्प्रकम्पो हदि तिष्ठति । एतदेव तस्य ध्येयत्वं यश्चित्तवृत्तहिर्विपयावभासतिरस्कारेणात्मप्रव. णतानाम शरावसंपुटनिरुद्धप्रभापतानप्रसरस्येव प्रदीपस्यैकनि- छत्वम् ॥ १११ ॥ (बी० मि० ) आशयशुद्धयभावेन समाध्यशक्तं प्रति मोक्षो. पायमाह- यथाविधानेन पठन साम(१)गानमविच्युतम् ।। साबधानस्तदभ्यासात्परं ब्रह्माऽधिगच्छति ॥ ११२ ॥ साम्नां सम्बन्धिगानरूपं ग्रन्थमविच्युतमस्खलितं यथास्यात. था यथाविधोनन वेदोपदिष्टविधिना सावधानः सामध्वन्यनु- स्यूतात्मैकाग्रचित्तः पठन् तदभ्यासात्तथा क्रमेणाऽऽशयशुद्धिसमा- (१) सामगाय-इति मु० पु० पाठः ।