पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६६ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः । (वीमि.) किञ्च- वीणावादनतत्वज्ञः श्रुतिजातिविशारदः॥ तालज्ञश्वाऽप्र(१)यत्नेन मोक्षमार्ग नियच्छति ॥ ११५ ।। श्रुतयो द्वाविंशतिः स्वराणां प्रभेदाः, जातयः सप्त निपादाद्या, तालध्वनिविशेपो रूपकादिः मोक्षमार्ग चित्तसमाधियोंगरूपं निय. च्छति प्राप्नोति । चकार: सर्वसाहित्यः॥ ११५ ॥ (मिता.) किंच- वीणेति । भरतादिमुनिप्रतिपादितवीणावादनतत्ववेदी। श्रूयत इति श्रुतिः द्वाविंशतिविधा सप्तस्वरेषु । तथा हि-पड्जमध्यमपञ्च- माः प्रत्येकं चतुःश्रुतयः ऋषभधैवती प्रत्येक त्रिश्रुती इति । जातयस्तु पड्जादयः सप्त शुद्धाः, सङ्करजातयस्त्वेकादशेत्येवमयादशविधास्ता. सुविशारदः प्रवीणः ताल इति गीत(२)परिमाणं कथ्यते। तत्व. रूपालाश्च तदनुविद्धब्रह्मोपासनतया तालादिभङ्गमयाचित्तवृत्तरात्मै का. प्रतायाः सुकरत्वादल्पायासेनैवमुक्तिपथं नियच्छति प्राप्नोति॥११५॥ (वीमि०) गीतानां ब्रह्मोपासनबुध्या कृतानां मोक्षहेतुत्वम- तथाकृतानां तु फलमाह- गीतज्ञो यदि योगेन नामोति परमं पदम् ॥ रुद्रस्याऽनुचरो भूत्वा तेनैव सह मोदते ॥ ११६ ॥ योगेन योगद्वारा तदा मोक्ष एवेत्यन्वयः। शेषं स्पष्टम् ।तथा रु. द्रसेवया जन्मान्तरे सत्वशुद्धिमासाध मुच्यत इत्याशयः ॥ ११६ ॥ (मिता०.) चित्तविक्षेपाद्यन्तरायहतस्य गीतशस्य फलान्तरमाह- गीतज्ञ इति । गीतको यदि कथंचिद्योगेन परमं पदं नामोति तर्हि रुद्रस्य सचिवो भूत्वा तेनैव सह मोदते क्रीडति ॥ ११६ ॥ (वी०मि०) 'अजः शरीरग्रहणादित्येवाऽऽद्युक्तमुपसंहरति- अनादिरात्मा कथितस्तस्यादिस्तु शरीरकम् ।। आत्मन(३)श्व जगत्सर्व जगतश्वाऽऽत्मसम्भवः ॥ १७ ॥ अनादिरात्मा (४)कथितः। तस्यादिः कुत्सितशरीरग्रहणमेव (१) तालज्ञश्वाऽप्रयासेन इति मु.पु. पाठः। (२) गीतप्रमाणं कल्यते । (३) आत्मनस्तु-इति मु९ पु० पाठः। (1) अनादिजीवात्मा-इति क० पु. पाठः ।