पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८६७ कथितं प्राक् । परमात्मनः सर्व जगत् पृथिव्यादिमहाभूतानि । जगतश्च जीवात्मनः शरीरोत्पत्तिरित्यर्थः । तुशब्देन स्वरूपोत्प- त्तिय॑वच्छिन्ना । आधचकारेण महत्तत्वादेहेंतोर्द्वितीयंचकारेण दृष्टः स्य हेतोः सङ्ग्रहः ॥ ११७॥ (मिता० ) पूर्वोक्तमुपसंहरति- - अनादिरिति । प्रागुक्तरीत्या अनादिरात्मा क्षेत्रज्ञस्तस्य च शरी- रग्रहणमेवादिरुद्भवः कथितः 'अजः शरीरग्रहणादित्यत्रा परमा. त्मनश्च । सकाशात्पृथिव्यादिसकल वनोद्भवः तस्मादु(१)द्भूताच पृथिव्यादिभूतसंघाताजीवानां स्थूलशरीरतया संभवश्च कथितः 'सर्गादौ स यथाकाश मित्यादिना ॥ ११७ ॥ '. (वी०मि.) भूतेभ्य आत्मनस्तस्मान्च भूतानामुत्पत्तिरित्यापा. ततोऽसङ्गत मन्वाना मुनयः पृच्छन्ति- · · कथमेतद्विमुह्यामः सदेवासुरमानवम् ॥ जगदुत्पन्न(२)मात्मा च कथं तस्मिन्वदस्व नः ॥ ११८ ।। .. देवासुरमानुषसहितं जगत्पश्चभूतात्मक कथमात्मन: उत्पन्नमा. ज्मा च तस्मिन् जगति समुत्पन्नः कथमित्येतद्विमुह्यामो विरोधमा. 'वेन सन्देहविषयीकुर्याम वयमतो मोहापाकरणपूर्वकं ना वदस्व । चकारेणाऽनादित्वमपि कथमेवमात्मन इति समुच्चीयते ॥ ११८ ॥ (मिता) एतदेव प्रश्नपूर्वकं विवृणोति- . __ कथमिति । यदेतत्लकलसुरासुरमनुजादिसहितं जगत्तदात्मनः सकाशात्कथमुत्पन्नं, आत्मा च तस्मिन् जगति कथं तियनरसरी. सुपादिशरीरभाग्भवतीत्येतस्मिन्नर्थे विमुद्यामः। अतो मोहापनुत्यर्थः मस्माकं विस्तरशो वदस्व ॥ ११८॥ (वी०मि०) निरुपाधेरात्मनो जगदुत्पत्तिस्ततश्च शरीरविशि- ष्ट आत्मा उत्पद्यते विशेषणीभूतं शरीरमेवोत्पद्यत इति यावदतो न विरोध इत्यक्षरतात्पर्याभ्यां याज्ञवल्क्य उत्तरयति दशभिः-- मोहजालमपास्येह पुरुषो दृश्यते हि यः॥.. • सहस्रकरपन्नेत्रः सूर्यवचः सहस्रकः ॥ ११९ ॥. (१) संभूताश्च पृथिव्यादिभूतसंघाता: जीवानां । • (२.).जगदुद्भून इति. मु: पु० पाठः। .