पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६८ याज्ञवल्क्यस्मृतिः। [प्रायश्चिचाध्यायः । सं आत्मा चैव यज्ञश्च विश्वरूपः 'प्रजापतिः ॥ .. विराजः सोऽनरूपेण यज्ञत्वमुपगच्छति ॥ १२० ॥ । मोहजालं तत्वज्ञानेनाऽपास्य इह प्रागुक्त हत्कमले सहनकरच. रणचक्षुःशिरोयुक्तः सूर्यतुल्यतेजा योगिभिर्दश्यते' यः परमात्मा स एव यज्ञो यागेनाराध्यः स एव प्रजापतिर्ब्रह्मा विश्वरूपो विराट् स एवाऽन्नरूपेण यशत्वं वाजपेयादिरूपमुपंगच्छति । एतेन विश्व. रूपत्वाभिधानेन जन्यजनकभावो न विरुद्धयति इति समाधानमपि सूचितम् ॥ ११९-१२०॥ . . . . (मिता ) एवं मुनिभिः पृष्टः प्रत्युत्तरमाह- मोहजालमित्यादि । इह जगति यदिदं स्थलकलेघरादावनात्म- न्यात्माभिमानरूपं मोहजालं तदपास्य तद्यतिरिक्तो यः पुरुषोऽनेकका रचरणलोचनः सुर्यवर्चाः अनन्तरश्मिः सहस्रका वहुशिरा रश्यते । एतञ्च तत्तद्गोचरशक्त्यांधारतयोच्यते । तस्य साक्षात्कारादिसम्ब- न्धाभावात् । स एवात्मा यशः प्रजापतिश्च । यतोऽसौ विश्वरूपः सर्वात्मकः । वैश्वरूप्यमेव कथमिति चेत् । यस्मादसौ विराजः पुरो. डाशाद्यन्नरूपेण यशत्वमुपगच्छति । यज्ञाच वृष्टयादिद्वारेण प्रजास: ष्टिरित्येवं वैश्वरूप्यम् ॥ १११-१२० ।। यो द्रव्यदेवतात्यागा(१) सम्भूतो रस उत्तमः ।। देवान् सन्तयं स रसो यजमानं फलेन च ॥ १२१ ।। संयोज्य वायुना सोमं नीयते रश्मिभिस्तथा ।। ऋग्यजुःसामविहितं सौरं धामोपनीयते ॥ १२२ ।। तन्म(२)ण्डलादसौ सूर्यः सृजत्यमृतमुत्तमम् ॥ . . यजन्म सर्वभूतानामशनानशनात्मनाम् ॥ १२३ ॥ . तस्मादन्नात्पुनर्यज्ञः पुनरन्नं पुनः क्रतुः॥ एवमेतदनाद्यन्तं चक्रं सम्परिवर्तते ॥ १२३ ॥ (पी० मि.) हविरादिद्रव्यकर्मदेवतोद्देश्यकत्यागरूपाद्वाजपेया. दियज्ञाद्यो रसः सारो विकार उत्तमो विश्वनिदानतयाऽदृष्टात्म- (१) त्यागसं०-इति मु० पु० पाठः। (२) स्यमण्डला-इति मुं० पु०पाठः ।