पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- याज्ञवल्क्यस्मृतिः। प्रायश्चित्ताध्यायः । (वी०मि.) नन्वनाद्यन्तं चेत् संसारचक्रं तदाऽनिर्मोक्षप्रसङ्ग इत्याशयांह-- - अनादिरात्मा सम्भूतिर्विद्यते नान्तरात्मनः॥ समवायी तु पुरुपो मोहेच्छाद्वेषकर्मजः ॥ १२५ ॥ आत्मा स्वरूपतोऽनादिरिति नान्तरा संसारमध्ये तस्यात्मन:- सम्भूतिर्विद्यते, तथापि पुरुष आत्मा मोहादिकृतेन कर्मणा लब्धज. न्मा गृहीतशरीरः सन् सुखदुःखादिसमवायी भवति । तथा च मोहादेनिमित्तस्याऽभावे जन्माभावात्सुखदुःखादिविच्छेदे मोक्षः स. म्भवत्येव । कस्यचिदात्मनः सर्वदानिर्माक्षा च संसारचक्रस्याऽना- द्यन्तत्वं न तु सर्वस्यात्मन इति मीमांसकाः । अनन्तत्वं प्रलयव्यति. रिक्तान्तशून्यत्वम् । एवमादित्वमपि वाच्यामिति । तुशब्देन साहय. प्रसिद्धमात्मनो दुःखाद्यसम्भेदं व्यवच्छिनत्ति ॥ १२५ ॥ (मिता० ) ननु यद्यात्मनः संसरणमनाद्यन्तं तहनिर्मुक्तिप्रसङ्ग इत्यत आह- __अनादिरिति । यद्यप्यात्मनोऽनादित्वात्संभूतिन विद्यते अन्तरा. त्मनः शरीरव्यापिनः तथापि पुरुषः शरीरेण समायी भवति भोगा. यतने सुखदुःखात्मकं भोग्यजातमुपभुझे इत्येवंभूतेन संबन्धेन संव. न्धी भवत्येव । स च समवायो मोहच्छाद्वेषजनितकर्मनिमयो न तु निसर्गजातः । तस्य कार्यत्वेन विनाशोपपत्तेर्नानिमुक्तिः ।। १२५ ॥ (वी०मि० ) अन्नरूपे संसारप्रवर्तको विराडित्युक्तं, स्वरूपेण विशेषः संसारमूलभूतप्राप्यमेकवर्णपृथिव्यादिप्रवर्तकत्वं तस्य द. शयति- सहस्रात्मा मया यो व आदिदेव उदाहृतः ॥ मुखबाहूरुपन्जाः स्युस्तस्य वर्णा यथाक्रमम् ॥ १२६ ॥ पृथिवी पादतस्तस्य शिरसो चौरजायत ।। नस्तः प्राणा दिशः श्रोत्रात्स्पर्शाद्वायुमुखाच्छिखी ।। १२७॥ . मनसश्चन्द्रमा जातश्चक्षुपश्च दिवाकरः॥ जघनादन्तरिक्षं च जगच्च सचराचरम् ॥१२८॥ सकलजीवात्मकतया च सहस्त्रात्मा य आदिदेवो विराट् मया