पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८७१ वः प्रागुदाहृतः, तस्य मुखादितो ब्राह्मणादयो वर्णा यथाक्रमं जाता. स्तिष्ठन्ति । नस्तो नासातः, स्पर्शातु स्पीपलम्भकात् त्वचः सच. राचरं स्थावरजङ्गमप्राणिसहितं जगद्विश्वम् । शेष सुवोधम् । चकारैः श्रोत्राद्वायुप्राणयो भेरन्तरिक्षस्य च कल्पान्तरे पुरुषसूक्त सिद्धामुत्पत्ति सूचयति ॥ १२६-१२८ ॥ . : (मिता० ) आत्मनो जगजन्मेत्युक्तं तत्प्रपञ्चयितुमाह- • सहस्त्रात्मेत्यादि । योऽसौ सकलजीवात्मकतया 'प्रपञ्चात्मक तया च सहस्रात्मा बहुरूपस्तथा सकलजगद्धतुतया आदिदेवो मया युष्माकमुदाहृतः तस्य वदनभुजसक्थिचरणजाता यथाक्रममा अजन्मादयश्चत्वारो वर्णाः । तथा तस्य पादाद भूमिमस्तकात्सुरसन घ्राणात्प्राणः कर्णात्ककुभः स्पर्शात्पवनो वदनाद् हुतवहः मनसः शशाङ्कः नेत्राद्भानुः जघनाद्गगनं जङ्गमाजङ्गमात्मकं जगच्च॥१२६-१२८॥ (वीमि०) मुनयो देशयन्ति:-१) यद्येवं स कथं, ब्रह्मन् पापयोनिषु जायते ।। इश्वरः स कथं भावरनिष्टैः सम्पयुज्यते ॥ १२९ ।। करणैरन्वितस्यापि पूर्वं ज्ञानं कथञ्चन ॥ वेत्ति सर्वगतां कस्मात्सर्वगोऽपि न वेदनाम् ।। १३० ।। . हे ब्रह्मन् योगीश्वर यद्येवमात्मजीवयोरैक्यं तदा स आत्मा ईश्वरोऽप्रतिहतेच्छः कथं पापासु निन्द्यासु सर्वासु योनिषु जायते, कथं वाऽनिष्टैर्भावैर्दुःखमोहादिभिश्चाण्डालतिर्यक्त्वादिभिश्च प्रक र्षेण चिरकालं बहुभी रूपैः संयुज्यते न हि मन्दोऽपि नाम शकः सन्ननभीष्टं दुःखादिकमनुभवतीत्येकः पूर्वपक्षः। यदि जीवः परमा त्मनोऽभिन्नस्तदा व्यापकत्वात्करणैर्मनःप्रभृतिभिरन्वितोऽपि पूर्व. जन्मानुभूतं नं कथं जनाति । शरीरस्य चैतन्ये तु नात्मन्यतिप्रसङ्गः । पूर्वजन्मानुभावाय व्यधिकरणत्वेनैव तजन्मीयस्मृति प्रत्यहेतुत्वादि. ति द्वितीयः पूर्वपक्षः । यदि परमात्मनोऽभिन्नो जीवस्तदा सर्वगः सर्वप्राणिनामन्तर्यामी स्यात् । तथा च सर्वप्राणिगतां वेदनां दुःखं कस्मान्न वेत्ति नाऽनुभवतीति तृतीयः पूर्वपक्षः । अपिकारौ विरो. धार्थों । चकारेण देवदत्तदृष्टस्य यज्ञदत्तेन कथं. न स्मरणमित्यपि पूर्वपक्षान्तरं समुचिनोति ॥ १२९-१३० ॥ . . . .