पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७४ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः । म् । न ह्यनन्तरमेव कर्मफलेन भवितव्यमिति शास्त्रार्थः । अत्र च कर्मणां शुभाशुभफलजनकत्वे सत्त्वादिभाव एव प्रयोजकभूतस्तदाय. त्तत्वातफलतारतम्यस्य ।। १३३ ।।। (वी० मि.) 'अन्त्यपक्षिस्थावरता'मित्याधुक्तं विशिष्य प्रपञ्चयति- परद्रव्याण्यभिध्यायंस्तथाऽनिष्टानि चिन्तयन् ।। वितथाभिनिवेशी च जायतेऽन्त्यासु योनिषु ॥ १३४ ॥ पुरुपोऽनृतवादी च पिशुनः परुषस्तथा ॥ अनिवद्धमलापी च मृगपक्षिपु जायते ॥ १३५ ॥ अदत्तादाननिरतः परदारोपसेवकः ॥ हिंसकश्चाऽविधानेन स्थावरेवभिजायते ॥ १३६ ॥ आत्मज्ञः शौचवान् दान्तस्तपस्वी विजितेन्द्रियः ।। धर्मद्वेदविद्यावित्सात्विको देवयोनि(१)पु ॥ १३७ ।। असत्कार्यरतोऽधीर आरम्भी विषयी च यः ।। स राजसो मनुष्येषु मृतो जन्माऽधिगच्छति ॥ १३८ ॥ निद्रालुः क्रूरकृल्लुब्धो नास्तिको याचकस्तथा ॥ प्रमादवान् भिन्नतो भवेत्तिर्यक्षु तामसः ।। १३९ ।। रजसा तमसा चैव समाविष्टो भ्रमनिह ।। भावरनिष्टैः संयुक्तः संसारं प्रतिपद्यते ॥ १४० ॥ मृत इति सर्वत्र वाक्येऽन्वीयते। तेन परद्रव्याण्यपहर्तुमभिध्या- यन् परस्याऽनिष्टानि चिन्तयित्वा वितथेऽसत्येऽर्थे वाधशास्त्रयुक्त सत्यत्वव्यवस्थापनार्थमभिनिवेशशीलो वा भृतो जन्मान्तरे अन्त्यासु अन्त्यपुंसा युक्तासु योनिषुचाण्डालयोनिपु जायत इत्यर्थः। तथाश. ब्देन चशब्देन च समुच्चयार्थकेन विशेषणविशेष्यभावनिरासः। एव. मग्रेऽपि । अनृतमयथार्थ वचसा वादी तदभिधानशील:,पिशुनः पर- दोपख्यापनशीलः, परुषः श्रोतुरुद्वे(२)जकवाक्यप्रयोक्ता, अनिवद्धं धर्मशास्त्राद्यनुक्तं स्वेच्छाकल्पितमर्थ कर्तव्यत्वेन प्रलपतीत्यानिबद्ध- (९) देवयोनिताम्-इति मु० पु० पाठः। (२) श्रोतुरुद्वेगकरवाक्य-इति खं पु० पाठः।