पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः । (बी०मि. ) तृतीयपूर्वपक्षमुत्तरयति-- . सर्वाश्रयां निजे देहे देही विन्दति वेदनाम् ॥ - योगी मुक्तश्च सर्वासां यो(१)न वाऽऽनोति वेदनाम्॥१४३॥ सर्वास्यात्मनः स्वाभिन्नत्वात् स्वनिष्ठामिव वेदनां सर्वाश्रयां घेदनां देही देहाभिमानी निजे देहे विन्दति प्राप्नोति । यो मुक्तो मुक्तदेहा- मिमानो योगी स सर्वासामेव वेदनानां वेदिता भवतीति कस्मान्नवे. त्तीत्याशङ्कितवतो नैवेत्युत्तरं पर्यवसितम् । अथ परनिष्ठां वेदनां देही मुक्तो वा किमाप्नोत्येव नेत्याह 'न वाप्नोति वेदना'मिति विद्योपा- ध्यवच्छेदेन वेदनाजनकमाएं वर्तते । तदवच्छेदेन वेदनासम्बन्ध इति नान्यनिष्ठा वेदनाऽन्यत्र सम्बध्यत इत्यर्थः ॥ १४३ ॥ (मिता०) 'वेत्ति सर्वगतां कस्मात्सर्वगोऽपि न वेदना मिति यदुक्तं तत्रोत्तरमाह- सर्वाश्रयामिति । यः पुनर्देही देशाभिमानयुक्तः स सर्वाश्रयामा. ध्यात्मिकादि(२)रूपां वेदना स्वकर्मोपार्जित एव देहे प्राप्नोति, न देहान्तरगता, भोगायतनारम्भाहटवलक्षण्यादेव । यस्तु योगी मुको मुक्ताहंकारादिः सकलक्षेत्रगतानां सुखदुःखादिसंविदा वेदिता भवति परिपककरणत्वात् ॥ १४३ ॥ (वी०मि० ) नन्वात्मैक्यं प्रागुक्तं न घटते, 'अस्मान्मनुष्यादयः मश्चो भिन्न इत्यादिभेदप्रत्ययस्य सर्वसिद्धत्वादित्यत आह- आकाशमेकं हि यथा घटादिपु पृथग्भवेत् ॥ तथात्मैको घनेकश्च जलाधारोधिवांशुमान् ।। १४४ ।। एकमेवाकाशं यथा घटाकाशाद् गृहाकाशो भिन्न इत्येवं पृथग्भावे भिन्नत्वेनाऽनुभवविपयो भवति, यथा वा जलाधारेषु नानापात्रेषु अंशुमान् सूर्यः पृथग्भवेत्तथैक एवात्माऽनेकत्वेनाऽनुभवविषयो भव- तीत्यर्थः । हिशब्दाभ्यां यान्तयोः सर्वसिद्धत्वेनाऽवधारणमभिप्रेति। तथा च सर्वजीवसाधारणाविद्यारूपदोपावशादयं भ्रम एवेति भावः॥ (मिता० ) नन्वेकस्मिन्नात्मनि सुरनरादिदेहेपु भेदप्रत्ययो न घटत इत्याशङ्कयाह- आकाशमिति । यथैकमेव गगनं कृपकुम्भाशुपाधिभेदभिन्नं नाने. (२) योगमाप्नोति-इति मु० पु० पाठः। (२) स्मिकादिबहुरूपाय।