पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८७९ वानुभूयते, यथा वा भानुरेकोऽपि भिन्नेषु जलभाजनेषु करकमणि कमल्लिकादिषु नानेवानुभूयते, तथैकोऽप्यात्मा अन्तःकरणोपाधिभे- देन नाना प्रतीयते । द्वितीयदृष्टान्तोपादानमात्मभेदस्यापारमार्थिक- त्वद्योतनार्थम् ॥ १४४ ॥ - (वीमि० ) महाभूतादीनां वर्णादीनां चराचरस्य च सृष्टिः- प्रागुक्ता, तंत्र प्रथम चरभावं व्यक्तीकरोति- . ब्रह्मखानिलतेजांसि जलं भूश्चेवि धातवः ॥ इमे लोका एष चात्मैतस्माच्च(१) सचराचरम् ॥ १४ ॥ ब्रह्म व्यापकचिदानन्दरूपं स्वतासिद्धं सर्वाद्यभूतम् । अस्मादेव ब्रह्मणो हेतुभूतात् खादयः पञ्च धातवो यथाक्रमं जायन्ते ।त इमे पञ्च धातवोऽन्तरिक्षवाय्वग्निवरुणभुलोका उच्यन्ते । एषु च जातेष्वात्मा ब्राह्मणादिशरीरावच्छिन्नो भवति । एतस्मादनन्तरं चराचरसहितं विश्वं जायत इत्यर्थः । चकारणायेनाकाशादीनां साहित्यमभिप्रेति । द्वितीयचकारेण च सहितानां हेतुत्वमाह । तृतीयचकारेण शरीरिणां चराचरसृष्टः साहित्यम् ॥ १४५॥ (मिता०) 'पञ्चधातून्स्वयं षष्ठ आदत्ते युगपत्प्रभु'रित्याधुक्तम-- र्थमुपसंहृत्याह- ब्रह्मति । ब्रह्म आत्मा खं गगनमनिलो वायुः तेजोऽग्निः जलं प्र. सिद्धं भृश्चत्येते वातादिधातव एव शरीरंव्याप्यधारयन्तीति धातवो- ऽभिधीयन्ते । तत्र खादयः पञ्च धातवः लोक्यन्ते दृश्यन्ते इति यावत् । एष चिद्धातुरात्मा एतस्माजडाजडसमुदायात्स्थावरजङ्ग- मात्मकं सर्वं जगदुत्पद्यते ॥ १४५ ॥ (वी०मि० ) परमेश्वरेण कर्तुं शक्यत्वात् महाभूतसापेक्षस्यैव- तस्य सृष्टिसमर्थत्वे महाभूतसृष्टिरेवाऽनुपपन्ना स्यादित्यत आह- मृद्दण्डचक्रसंयोगात्कुम्भकारो यथा घटम् ॥ . करोति तृणमृत्काष्ठैगृहं वा गृहकारकः ॥ १४६॥ . हेममात्रमुपादाय रूपं वा हेमकारकः ।। निजलालासमायोगात्कोशं वा कोशकारकः ॥ १४७ ।। (१) एष चात्मा तस्माच-इति मु० पु० पाठः ।