पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरभित्रोदयमिताक्षरासहिता। ८८१ जतीत्यत्र बाधकाभावात् । अत आत्मनि देहिनि मानमाह- महाभूतानि ससानि यथात्माऽपि तथैव हि । कोऽन्यथैकेन नेत्रेण दृष्टमन्येन पश्यति ॥ १४९ ।। वाचं वा को विजानाति पुनः संश्रुत्य संभ्रुताम् ।। अतीतार्थस्मृतिः कस्य को वा स्वप्नस्य कारकः ॥ १५० ॥ जातिरूपवयोवृत्तविद्यादिभिरहकृतः ॥ . सक्तः श(२)ब्दादिविषये कर्मणा मनसा गिरा ॥ १५१ ॥ उक्तयुक्त्या महाभूतानि यथा सत्यानि तथाऽऽस्मापि सत्यः । तत्र हेतुः-अन्यथा आत्मनोऽसत्यत्वे इन्द्रियाणां चेतनत्वे एकेन नेत्रेण दृष्टमन्येन नेत्रेण स्वगादिना कः पश्यति, न चेदुभयदर्शी कश्चिदभ्यु. पेयः । तथा वामेन चक्षुषा यदद्राक्षं तदक्षिणेन चक्षुषा त्वचा वा पश्यामीति प्रतिसन्धानं नोपपद्यतेत्यर्थः । हिरवधारणे । एवकारेण भूतचैतन्यव्यवच्छेदः । अपिकारो दृष्टान्तदान्तिकयोहेतुत्वं समुः चिनोति । वाचमिति । यदि शरीरमेव चेतनं तदा संश्रुत्य वाचं पु. नः पुनः कः शृणोति । आहारपरिणामभेदेन शरीरस्य भिन्नत्वात् । यदि नोभयश्रावी कश्चिदेकः तदा यदीषं पुरा तदधुना शृणोमीतिः प्रतिसन्धानं न स्यादित्यर्थः। अतीतेति । यद्यात्मा नास्ति तदा ऽऽहारपरिणामभेदभिन्नस्य शरीरस्थ अनुभवानाश्रयत्वेन स्मर. णं नोपपद्यत । अतीतपदेन विषयस्य चैतन्याभावः सूचितः । को वे. ति । स्वप्नज्ञानस्य कारकः समवायिकारणक: इन्द्रियाणां विरतं. व्यापारत्वादित्यर्थः । जातीति । जायादिभिरहङ्कतः को वा यद्या. त्मा नास्ति तदा मनुष्योऽहं गौरो युवा याज्ञिकोऽधीतवेदो.देवदत्त. पुत्र इत्यादिप्रतीत्याश्रयः कः स्यात् । न हि शरीरमेव तथा, मृतश. रीरेऽपि तथावप्रसङ्गात् । नापि प्राणः, तथा तस्याशु विनाशित्वेन पूर्वज्ञातार्थोपनीतमानासम्भवात् । न ह्यन्येन ज्ञातमन्यस्येपनीतं भा. सते सामानाधिकरण्येनैव उपनयनस्य हेतुत्वादित्यर्थः । सक्त इति । यदि चिरस्थायी.नात्मास्ति तदा कर्मणा मनसा वाचा वा ज.. (१) शब्दादिविषयोयोग क०-इति मु० पु० पाठ:1..