पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.८८२ - याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः । न्मान्तरे शब्दादिविषयोपभोगहेतुमुद्योगधर्मारम्भं को वा करोती. त्यर्थः ॥ १४९-~१५१॥ (मिता०) किं पुनर्वैपायकज्ञानेन्द्रियव्यतिरिक्तात्मसद्भावे प्रमाण. मित्याशझ्याह- __ महाभूतानीति । यथा हि पृथिव्यादिमहाभूतानि सत्यानि प्रमा. णगम्यत्वात् तथात्मापि सत्यः । अन्यथा यदि बुद्धीन्द्रियव्यतिरिक्तो शाता ध्रुवो न स्यातहि एकेन चक्षुरिन्द्रियेण दृष्टं वस्तु अन्येन स्पर्शनेन्द्रियेण को विजानाति यमहमद्राक्षं तमहं स्पृशामीति । तथा कस्यचित्पुरुषस्य वाचं पूर्व श्रुत्वा पुनः श्रूयमाणां वाचं तस्य वागियः मिति का प्रत्यभिजानाति । तस्मात् ज्ञानेन्द्रियातिरिक्तो ज्ञाता ध्रुव इति सिद्धम् ॥ (मिता०) किञ्च-- अतीतेत्यादि। यद्यात्मा भूतो न स्यात् तद्यनुभूतार्थगोचरा स्मृ. तिः पूर्वानुभवभावितसंस्काराबोधनिवन्धना फस्य भवेत्। न हान्येन दृष्टे वस्तुन्यन्यस्य स्मृतिरुपपद्यते । तथा का स्वप्नशानस्य कारकः । न हीन्द्रियाणामुपरतव्यापाराणां तत्कारकत्वम् । तथाहमेवाभिजन. त्वादिसम्पन्न इत्येवंविधोऽनुसन्धाप्रत्ययः कस्य भवति स्थिरात्म. व्यतिरिक्तस्य । तथा शब्दस्पर्शादिविषयोपभोगसिद्ध्यर्थमुधोगं मनोवाकार्यः कः कुर्यात् । तस्मादपि बुद्धीन्द्रियव्यतिरिक्त आत्मा स्थितः ॥ १४९-१५१॥ __(व०मि० ) अथ प्रकृतमात्मोपासनं तद्विरोधिसन्दिग्धमतित्वा. दिनिरासेन सम्पादनीयमित्यभिप्रेत्याह- स सन्दिग्धमतिः कर्मफलमस्ति न वेति वा ॥ विप्लुनः सिद्धमात्मानमसिद्धोऽपि हि मन्यते ॥ १५ ॥ . मम दाराः सुतामात्या अहमेपामिति स्थितिः॥ हिताहितेपु भावेषु विपरीतमतिः सदा ॥ १५३ ॥ ज्ञेये च(१) प्रकृतौ चैव विकारे वाऽविशेषवान् ॥ अनाशकानलापातजलप्रपतनोधमी ॥ १५४॥ (१)शेयज्ञे-इति मु०० पाठः।