पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८६ याज्ञवल्क्यस्मृतिः । [प्रायश्चित्ताध्यायः । (वी० मि०) ननु वैराग्यान्ममतादिपरित्यागेऽपि ध्यानाभ्यास कुर्वतो दैवात्मदर्शनोऽनुत्पन्न एव । मृतस्य न मोक्षो नाप्यहिकसुख- मित्युभयविधसंशयात्कथमत्यायाससाध्ये योगाभ्यासे प्रेक्षावतां प्रवृ- त्तिरत आह- • शरीरसंक्षये यस्य मना सत्त्वस्थमीश्वरे(१) ।। अविप्लुतमतेः सम्यक् स जातिस्मरतापियात् ॥ १६१ ॥ यस्याऽविप्लुतमतेरविपर्यस्तज्ञानस्य तत्वज्ञानिनो मनः सरवस्थं कामक्रोधादिरहितं सम्यगेकामध्यानेनेश्वरे आत्मनि स्थिरं सोऽन्तरा शरीरसंक्षये मरणे जाते जन्मान्तरे जातस्य जातिस्मरतामियात् । तथा च जन्मान्तरानुभूतकृमिकीटादिनानागर्भवाससमुदभूतदुःख. स्मरणाज्जातवैराग्यो मोक्षार्थ यतते । ततः क्रमेण साक्षात्कारे सति स मुच्यते इति भावः । तदुक्तं भगवद्गीतायाम्---- तत्र तं वुद्धिसंयोग लभते पौर्वदेहिकम्। यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ . इत्यादि । १६१ ॥ (मिता०) किंच- शरीरेति । यस्य पुनर्योगिनोऽविप्लुतमतेः शरीरसंक्षय समये मनः सत्वयुक्तं सम्यगेकाग्रतयेश्वरं प्रति व्याप्रियते स यापासनाप्रयोगाप्रवीणतयात्मानं नाधिगच्छति तर्हि विशि. प्टसंस्कारपाठवशेन जात्यन्तरानुभूतकृमिकीटादिनानागर्भवासादि- समुद्भूतदुःखस्मरत्वं प्राप्नुयात् । तत्स्मरणेन च जातोद्वेगतस्तद्विः च्छेदकारिणि मोक्षे प्रवर्तते ॥ १६१ ॥ (वी० मि.) न चाऽनारब्धफलानां कर्मणां तत्वसाक्षात्कारण नारोप्यः। अथ फलानां तेषां फलैकनाश्यतया बहुजन्मसंभृ(२)ता. नां बहुजन्मोपभोग्यानां च तेषां विद्यमानत्वे कथमुत्पन्नसाक्षात्का- रस्याऽपि मोक्षः स्यादत आह- यथा हि भरतो वर्णैर्णयत्यात्मनस्तनुम् ।। नानारूपाणि कुर्वाणस्तथात्मा कर्मजास्तनूः ॥ ११२ ॥ यथा भरतो नटः रामरावणादीनां नानारूपाणि कुर्वाणोऽनुकु- (१) सत्त्वस्थमीश्वरम्-इति मु० पु० पाठः । (२) सञ्चिताना-इति ख० पु० पाठः ।