पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८८७ णः सितादिभिर्वणैरात्मनस्तनुं वर्णयति रामायनेकरूपां रचयति तथात्मा योगसिद्धिवशाद्विदित्वाऽखिलकर्मणां भोगार्थ तत्तत्कर्म जास्तनूनरशूकरादितनूयुगपदेव . वर्णयति , रचयति । हिश. ब्देन सौरभिप्रभृतीनां कायव्यूहश्रवणेनाबंधारितत्वमस्यार्थस्याऽभि- प्रेति ॥ १६२ ॥ . . . . . (मिता०) यस्त्व(१)पटुसंस्कारतया पूर्वी जाति न स्मरति तस्य का गतिरित्यत्राह-, __यथेति । भरतो नटः स यथा रामरावणादिनानारूपाणि कुर्वाणः सितासितपीतादिभिर्वणरात्मनस्तनुं वर्णयति तथैवात्मा तत्तत्कर्म- फलोपभोगार्थ कुजवामनादिनानारूपाणि कनिमित्तानि कलेव. राण्यादत्ते ॥ १२ ॥ (व०मि०) नन्वनन्यगतिकत्वात फलकालारब्धकर्मणां कथं कायव्यूहेनोपभोगसम्भवः, मातू रजस्वलासमये नेत्राञ्जनादिकम. नहीनत्वादिहेतुमन्तरा अयोनिजशरीरे तदसम्भवादत आह- कालकर्मात्मबीजानां दोषैर्मातस्तथैव च ॥ गर्भस्य वैकृतं दृष्टमङ्गाहीनादि जन्मतः ॥ १६३ ॥ तथा मातुर्दोषेण जन्मत आरभ्याऽङ्गहीनादि हीनाङ्गत्वादि गर्भ स्य वैकृतं दृष्टं तथैव कालस्य वार्द्ध काद्यवस्थारूपस्य कर्मणो गर्म- हननादेर्दुरदृष्टविशेषवतो गर्भस्थस्य बीजस्य जनशुक्रस्थ वाताधु- पहतस्य दोषैरपि दृष्टम् । तथा चाऽप्यत्र दृष्टिविशेषादेव हीनाङ्गत्वा. दिकमुपपन्नमिति भावः। एवकारो लोकोक्तिविशेषे । चकारो मा. त्रादिगुणैर्ग त्कृष्टो दृष्ट इत्येतत्समुच्चयार्थः ॥ १६३ ॥ (मिता०) किंच-- कालेति। न. केवलं कर्मैव कुब्जवामनत्वादिनिमित्तं, किन्तु कालकर्मणी स्व(२)कारणपितृवीज़दोषो मातृदोष. श्चेति । सर्वमेतत्सहकारिकारणम् । एतेन दृष्टादृष्टस्वरूपेण कारणक- लापेन गर्भस्याङ्गहीनत्वादिविकारो जन्मन आ(३)रभ्यानियतकालो (१) यस्वयं दुःसंस्कार ख.। (२) स्वपितृकारणवीज ख.। (३) आरभ्यनियत छ ।