पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८९१ सत्याऽनृते यथा(१)र्थाऽयथार्थबुद्धी, श्रेयो मोक्षः, सुखदुःखे स्वर्गन. रको, शुभाऽशुभे कर्मणी पुण्यपापरूपे, निमित्तं भूकम्पादि, शाकुनशानं पक्षिचेष्टाविशेषाद्यवलोकनं, ग्रहसंयोगः शुभाशुभसूचकं ग्रहस्य रक्षा. विशेषाद्यवस्थानम् एतेभ्यो जातं फलमैहिकसुखदुःखरूपम् । तारायाः सप्तर्षिप्रभृतेर्नक्षत्रस्याऽश्विन्यादेश्च सञ्चारस्तदधिष्ठातृजीवकारिता, जागरः चिन्ताकारितः, स्वप्मजं स्वामिशिरश्छेदादिराज्याप्तिजन्यं दुः. खसुखरूपं फलम् , आकाशादीनि परोपभागार्थानि, मन्वन्तरर्वहुभिः सम्बन्धः तत्तत्कर्मफलार्थवादे श्रुतः, मन्त्रौषधिजन्यं फलं दुःखध्वंसः। आयेन चकारेण मूछाया, द्वितीयेन द्वेषस्य,तृतीयेन स्मृत्यनुकूलभा- बनाख्यसंस्कारस्य, अपिकारेण मनसोधिकसुखस्य, तथापदेनाऽऽका. शादिगुणानां शब्दादीनां विषयाणां सङ्ग्रहः । अपिशब्देन द्विती येन माणिजन्यदुःखध्वंसपरिग्रहः॥१७०-१७३ ॥ (मिता०) भूतचैतन्यवादिपक्षं परिजिहीपुराह- . वेदैरित्यादि । वेदैः स एष नेति नेत्यात्मेति, 'भस्थूलमनण्वह स्वमपाणिपादम्' इत्यादिभिः। शास्त्रैश्च मीमांसान्वीक्षिक्यादिभिः । विज्ञानश्च ममेदं शरीरमित्यादिदेहव्यतिरिक्तात्मानुभवैः । तथा जन्म मरणाभ्यां जन्मान्तरानुष्ठितधर्माधर्मनियताभ्यां देहातिरिक्तात्मानु- भानम् । आया जन्मान्तरगतकर्मानुष्ठातृनियतया । तथा गमनाग. मनाभ्यां ज्ञानेच्छाप्रयताधारनियताभ्यामपि भौतिकदेहातिरिक्तात्मा- नुमानम् । न हि देहस्य चैतन्यादिसमवायः सम्भवति । यतः का. (२)रणगुणप्रोक्तकमेण कार्यद्रव्ये वैशेषिकगुणारम्भो इष्टः । नच तत्कारणभूतपार्थिवपरमाण्वादिषु चैतन्यादिसमवायः सम्भवति, त. दारब्धस्तम्भकुंम्भादिभौतिकेष्वनुपलम्भात् । न च मदशक्तिवदुद. कादिद्रव्यान्तरसंयोगज इति वाच्यम् , शक्तेः साधारणगुणत्वात् । अतो.भौतिकदेहातिरि(३)क्तश्चैतन्यादिसमवाय्यङ्गीकर्तव्यः । सत्या. नृते प्रसिद्ध । श्रेयो हितप्रामिः । सुखदुःखे आमुग्मिके । तथा शुभः कर्मानुष्ठानमशुभकर्मपरित्यागः । एतैश्च ज्ञाननियतैदहातिरिक्तात्मा. नुमानम् । निमित्वं भूकम्पादि । शाकुनज्ञानं पिङ्गलादिपतत्रिचेष्टा. लिङ्गक शानम् । ग्रहाः सूर्यादयः तत्संयोगजैः फलैः । तारा अश्वि. (१) सत्यानृते प्रासद्ध इति ख०पु०पाठः । (२) कारणगुणप्रक्रमेण छ । (३)रिक्तचैतन्यादि ख।