पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८९३ कारादीनामीश्वरोऽस्ति परं न हि जीवात्मनो वुझ्यादिसमयिका. रणत्वेऽपि तत्कर्तृत्वं सम्भवति वुद्धयाद्यालम्बनस्य जीवात्मकृत्य. योग्यत्वात् । अत एव बुद्धिर्मयाकृतेत्यादिर्न व्यवहार इति । धारणं ब्रह्मधारणं, निमेषः साहजिकमक्षिकर्म, पाश्चभौतिक शरीरसम्ब. न्धि आदानं गर्भकाले जीवानुप्रवेशनम् । आत्मा परमात्मा ईश्वरः सर्वेषां प्रभुः सर्वगः सर्वप्राणिनामन्तर्यामी । शेषं पूर्ववत् ॥१७४-१७६॥ . (मिता० )किञ्च- ___ अहङ्कार इति । अहंकृतिरहङ्कारः। स्मृतिः प्राग्भवीयानुभवभा- वितसंस्कारोद्वोधनिबन्धना स्तन्यपानादिगोचरा । सुखमैहिकम् । धृतिधैर्यम् । इन्द्रियान्तरेण हि दृष्टेऽर्थे इन्द्रियान्तरस्य संचारो यम- हमद्राक्षं तमहं स्पृशामीत्येवमनुसन्धानरूप इन्द्रियान्तरसञ्चारः । अत्रेच्छाप्रयत्नचैतन्यानां स्वरूपेण लिङ्गत्वम् । पूर्वश्लोके(१) तु गमन: सत्यवचनादिहेतुतया आर्थिकं लिङ्गत्वमित्यपौनरुक्त्यम् । तथा धाः रणं शरीरस्य । जीवितं प्राणधारणम् । स्वर्गो नियतदेहान्तरोपभो. ग्यः सुखविशेषः । स्वप्नः प्रसिद्धः। 'पूर्वश्लोके तु स्वप्नस्य शुभफल. द्यो(२)तनाय लिङ्गत्वम्, अत्र स्वरूपेणेत्यपौनरुक्यम् । तथा भावाना- मिन्द्रियादीनां प्रेरणम् । मनसो गतिश्चेतनाधिष्ठानव्याप्ता । निमेषः प्रसिद्धः । तथा,पञ्चभूतानामुपादानम् । यस्मादेतानि लिङ्गानि भूते. ज्वेनुपपन्नानि साक्षात्परम्परया वा परमात्मनो द्योतकानि दृश्यन्ते तस्मादस्ति देहातिरिक्त आत्मा सर्वग ईश्वर इति सिद्धम् ॥१७४-१७६॥ (वी० मि० ) तेन याति परां गति'मित्यनेन जीवात्मनः परमा- त्मनि लयो मोक्ष इत्युक्तं, लघुश्च लिङ्गशरीरापगम इति दर्शितम् । लिङ्गशरीरं क्षेत्रलयात्मकं दर्शयन्नेव तस्य प्रकृतिरूपतयाऽवस्थाना- पगममाह-- . . बुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि च ।। अहङ्कारश्च बुद्धिश्च पृथिव्यादीनि चैव हि ॥ १७७ ॥ अव्यक्तमात्मा क्षेत्रज्ञः क्षेत्रस्याऽस्य निगद्यते ॥ ईश्वरः सर्वभूतस्थः सनसन सदसश्च यः ॥ १७८ ॥ (१) श्लोकेऽनुगमन । (२) योतकतया क ।