पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८९४ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः । बुद्धेरुत्पत्तिरव्यक्तात्ततोऽहङ्कारसम्भवः ॥ तन्मात्रादीन्यहडारादेकोत्तरगुणानि च ॥ १७९ ॥ शब्द: स्पर्शश्च रूपं च रसो गन्धश्च तद्वणः ।। . यो यस्मान्निामृतश्चैषां स तस्मिन्नेव लीयते ॥ १८० । बुद्धीन्द्रियाणि श्रोत्रादीनि पञ्च सार्थानि शब्दादिवश्यमाणगु. णात्मकविषयसहितानि, मनोऽन्तःकरणं, कर्मेन्द्रियाणि रागादीनि पञ्च, अहङ्कारो महत्तत्त्वविकारः, बुद्धिमहत्तत्त्वं, पृथिव्यादीनि पञ्च महाभूतानि । चकारैश्चतुर्मिरेतच्छलोकस्थैरग्रिमलोकस्थेन चकारण च समुच्चितानि सूक्ष्माणि तन्मात्रारूपाणि पञ्च । अव्यक्त प्रकृतिरि• त्यस्य विषयाणां विशेषणत्वेन क्षेत्रस्वरूपा प्रकृतिः, तया चतु- विशात्मकस्य क्षेत्रस्य य ईश्वरो व्यापाराणां नियन्ता सर्वभूतस्थः सकलमूर्तसंयोगजधर्मविद्भिर्विविच्य साक्षात्कारविपर्याकृता, असन् अयोगिभि(१)र्विविच्याऽप्रत्यक्षीक्रियमाणः, सदसन् धर्ये यशस्य- पारमार्थिकत्वादविद्यात्मकजीवोपाधेरपारमार्थिकत्वात् स जीवात्मा क्षेत्रको निगद्यते बुधैः कथ्यते । तत्राऽव्यक्तं नित्यं, ततोबुद्धरुत्पत्तिा, ततोऽहङ्कारस्य सम्भवः उत्पत्तिः, अहङ्काराच साक्षात्पञ्च तन्मात्रा, तद्वारा पञ्चभूतानि च एकोत्तरगुणानि आकाशवायुनेजोजलपृथि वीति क्रमेणैकैका(२)ऽधिकगुणवन्ति जायन्ते । चकारेणाऽहङ्कारागु. द्धिकर्मेन्द्रियमनांसि जायन्ते इति समुच्चीयते । शब्दादयस्तु पञ्च नन्मात्राणां पञ्चभूतानां च गुणत एव जायन्ते । एषां च यो यस्मा. निःसृत उत्पन्नः स तस्मिन्नेव लीयते स्थूलरूपेण तिरोभवति सूक्ष्म- रूपेण तिष्ठति, कारण एवाऽवतिष्ठत इति यावत् । तस्मात्प्रकृतिरूप. तया अवस्थानं क्षेत्रस्य सिद्धम् । प्रकृतिश्च विद्यमानाऽपि वीतरज- स्का योषिदपत्यमिव न संसारं प्रसूत इति न पुनः संसार इति रह. स्यम् । आद्य एवकारश्चतुर्विंशतिव्यतिरिक्तत्वस्य क्षेत्रत्वव्यवच्छे. दार्थः । चरमश्च विनाशव्यच्छेदार्थः । हिशब्दः साङ्ख्यादिशास्त्रसिद्ध स्वादस्मिन्नर्थेऽवधारणमभिप्रेति । चतुर्थश्लोकस्यैश्चतुर्भिश्चकारैर्वा. ग्वादीनां चतुर्णी शब्दादिगुणान्तरसमुच्चयः ॥ १७७-१८० ॥ (१) अयोगिनि विविच्या०-इति ख० पु० पाठः । (२)क्रमेण लौकिकाधिक०-इति ख.पु० पाठः।