पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् 1] वीरमित्रोदयमिताक्षरासहिता। ८९७ मिरात्मगुणैः 'दया क्षान्तिरनसूयाऽऽशौचमनायासो मङ्गलमकार्पण्यम- स्पृहेति गौतमादिप्रतिपादितैर्युक्ताः । तथा ये च (१)सत्यवदननिर. तास्तेऽपि तेनैव पितृयानेनैव सुरसदनमाप्नुवन्ति ॥ १८५ ॥ (वी० मि.) नन्ववान्तरप्रलयेनाऽखिलोपदिष्टविलयात कथ- मग्निहोत्रादिकर्मप्रवृत्तिः प्राथमिकी, यतः स्वर्ममार्गाधिरोहणं भवेदि- त्यत आह- तत्राऽष्टाशीतिसाहस्रा मुनयो गृहमेधिनः ।। पुनरावर्तिनो वीजभूता धर्मप्रवर्तकाः ॥ १८६ ।। (वी० मि.) वेदोपदेशद्वारा धर्मप्रवर्तका गृहमेधिनो गृहस्था. श्रमिणो, मुनय आत्ममननशीलाः सर्वज्ञा इति यावत्, अष्टाशीति- सहस्रसङ्ख्याः पुनः सर्गान्ते आवर्तिनो गृहीतजन्मानस्तत्र पित्याने बीजभूताः॥ १८६ ॥ (मिता० ) ननु नैमित्तिकादिप्रतिसंचरेऽखिलाध्यापकप्रलयाद- विदितवेदास्तस्योपरितना जनाः कथमग्निहोत्रादिकं कर्म करिष्यन्ति कथन्तरां चाऽकृतकर्माणः स्वर्गमार्गमधिरोश्यन्तीत्यत आह- तत्रेति । तत्र पितृयानेऽष्टाशीतिसहस्रसंख्या मुनयो गृहस्थाश्रः मिणः पुनरावृत्तिधर्माणः सर्गादौ वेदस्योपदेशकतया धर्मतरुप्रादु. र्भावे बीजभूताः सन्तोऽग्निहोत्रादिधर्मप्रवर्तकाः । अतो न प्रागुदित. दो(२)षसमासङ्गः ॥ १८६ ॥ (वी० मि० ) स्वर्गमार्ग तदुपदेष्टसहितमुक्त्वा मोक्षमार्ग तदु. पदेष्टसहितमभिधत्ते- सप्तर्षिनागवीथ्यन्तर्देवलोकं समाश्रिताः ॥ तावन्त एव मुनयः सर्वारम्भविवर्जिताः ॥ १८७ ॥ तपसा ब्रह्मचर्येण सत्यागेन मेधया। तत्र गत्वाऽवतिष्ठन्ते यावदाभूतसम्प्लवम् ॥ १८८।। यतो वेदाः पुराणानि विद्योपनिषदस्तथा ॥ श्लोकाः सूत्राणि भाष्याणि यच्च किञ्चन वाड्मयम्॥१८९॥ (१) सत्यवचन ख। . (२) समागमः । . १०॥